पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसिकरञ्जनम् । १२७ विधे मानसहिते आरम्भे किमपि आगोऽपराधो न यदि उदस्त्रे अक्षिणी यस्या एवंविधा त्वं दृशं रागं नयसि एनां दृशं रक्तां मां नयसि तदा हृदा वाचा श्रीसत्यां त्वयि अचलमिदं मया तत्त्वमुदितमुक्तम् ॥ स्तम्भितमनोभवमदो धन्यो भजते सनर्मदारोधः । नित्यं तपस्यतो निशि किं नानन्दाद्वयानुभूतिः स्यात् ।। ८२॥ स्तम्भितेति । [वै ०-] स्तम्भिता मनोभवाश्चित्तजा मदा विद्यादिजन्या येनैवंविधो धन्यः स नर्मदाया रोधस्तटं भजते । निशि नित्यं तपस्यतोऽस्य किमानन्दाद्वयानुभूतिर्न स्यात् ।। [श्रृ ०-] स्तम्भितो मनोभवमदो वीर्यं येन सनर्मदासे नर्मसहितस्त्रीको धन्यः पुरुषोऽधो भजते । अतस्तपसि माघे आनन्दाद्वयस्यानुभूतिः किं न स्यात् ॥ सप्तसामनुत ईश्वरो भवान्किं ददाति न वृथा विलम्बते । तत्त्वदीयभजन हिताय नः खाव्ययत्वमिह न प्रकाशय ॥ ८३ ॥ सप्तेति । [वै०-] सप्तभिः सामभिः स्तुतो भवान् ईश्वरो नियन्ता कि स्वभजनं न ददाति वृथैव विलम्बते तत्त्वदीयभजनं नोऽस्मभ्यं हिताय । इह स्वाव्ययत्वं न प्रकाशय अव्ययत्वं शब्दच्छलात्कार्पण्यं न प्रकाशय । भजन देहीति ॥ [श्रृ ०-] कामपि द्रव्यदानेनाभिलप्यन्तं प्रति वचनम्-सा सप्त मनुते । भवान् ईश्वरो धनाढ्यः । अतः सप्तापि न ददाति किं वृथा विल- म्बते । किं ततस्तवेत्याह-तस्यास्त्वदीयभजनं तत्वदीयभजनं नो हिताय इह स्वाध्ययत्वं कार्पण्यं न प्रकटय । रम्भास्फुटोपमानामुत्क्षेपस्पष्टमूलवरदोषाम् । करजानुशीलितानां हरिणाक्षीणां स्मराद्यबाणभुजाम् ॥ ८४ ।। रम्भेति । [वै०--] हे सखे, अद्य त्वं बाणस्य बाणासुरस्य भुजां स्मर । जान्यैकवचनम् । अवशिष्टबाहुद्वयातिरिक्तवाहून्स्मरेत्यर्थः । कीदृशीम् । रम्भायाः कदल्याः स्फुटा उपमा यस्यास्ताम् । पुनः । उत्क्षेपे दर्पणोर्ध्वक्षेपे स्पष्ट मूलं वरो महेशवर एव दोषो यस्यास्ताम् । पुनः । करश्च जानु च त- च्छीलि तानं दीर्घता यस्याः । पुनः । हरिणा कृष्णेन क्षीणाम् ॥