पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२६ काव्यमाला। [श्रृ ०- ] मनोहरेण वयसा तारुण्येनान्विते । तन्वा शरीरेण निरस्तौ शीनातपौयया तथाविधे। तरुणीवनुः शीतकाले उष्णा, उष्णकाले शीतला। यतः मन्तोऽलकाश्र्चूर्णकुन्तला यस्मिन् एवंविधमाननं यस्याः हे युवते, तव योगसिद्धिस्त्वत्संसर्गलाभ: कदा भवनु । अये, मयोदितमुक्तं श्रृणु परमुत्कृष्टम् अयोगिना विरहिणा दुष्प्रापं माधवं वैशाखं वसन्तं पश्यतः सुमनसां पुष्पाणां वैभवं समृद्धिस्तस्मान्मामङ्गीकुरु ।। नित्यं निरञ्जनकथं साक्षिज्योतिः स्वतःप्रकाशमुखम् । गमयति यतिमनुगमयति रमयति शमयति च सपदि संतापम् ॥८०॥ नित्यमिति । [वै०-] नित्यमविनाशि निरञ्जनकथं निर्लेपवार्त साक्षि- रूपं ज्योतिःस्वरूपं ब्रह्म विष्णुलक्षणं यति संन्यासिनं स्वतःप्रकाशं यत्सुग्वं चिदानन्दरूपं तद्गमयति अनुगमयति रमयति सपदि सांसारिकं संताप शमयतीति ॥ [श्रृ ०- ] सा विधवा, नित्यं निर्गता अञ्जनकथा कज्जलकथा यस्मात् - स्वत.प्रकाशेन स्वाभाविकेनैव कान्तिविशेषेण सुखं सुखकारि अक्षिज्योति- र्नेत्रप्रभा गमयति प्रापयति यतिमनुगमयति अनुगनं करोति रमयति सपदि संतापं च शमयति ॥ चिरप्रेमस्थेमस्थगितहृदये पद्मनयने समानारम्भेऽस्मिन्भवति न मयागोपि किमपि । उदस्त्राक्षी राग नयसि दृशमेनां च यदि मां हृदा वाचा श्रीमत्यचलनमिदं तत्त्वमुदितम् ॥ ८१ ॥ चिरेति । [ वै०-] पद्मनयने कृष्णे चिरं प्रेम्णः स्थित्या स्थगितं हृद्य- स्यैवंविध अये मित्र, समान आरम्भ उद्यमो यस्यैवंविधे भवति अस्मिन् त्वयि समानशीले विष्णुभक्ते मया किमपि न अगोपि गुप्तम् | त्वं रागमनुरागं विषयेषु उदस्त्राक्षीरुत्सृष्टवान् । दृशं दृष्टिं नयसि प्रापयसि । आन्तरं राग दृष्टौ न्यस्यसि । यदि एनां सरागां दृष्टिं मां नयसि प्रापयासि अनुरक्तो मां पश्यसि तदा हृदा वाचा श्रीमति वासुदेवे अचलनमिदमेव तत्वमुदितमुक्तम् ॥ [ श्रृ ० --] चिरप्रेमस्थित्या छादितहृदये पद्माक्षि हे भवति, अस्सिन्नेवं-