पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसिकरञ्जनम् । १२५ विशीति । [वै० ] वायौ वहति सति वनश्रीर्विशिष्टा न । तत्तस्मा- दस्यां वनलक्ष्म्यां सौमनसी पुप्पसंबन्धिनी आदिवृद्धिः इदनीं वातान्दोलन- तया तथा नास्ति । ततो यादवस्य विष्णोः संबन्धिनी वागर्हणा वाचा अहं. णा पूजा भवतु । तदीया पूजा वारिणव वा अस्तु [१० ] अस्यां विशिष्टा अतिशयिता नवा नूतना यौवनश्रीः । अस्तीति शेषः । तदस्यां सौमनस्यादेः प्रीत्यादेरभिवृद्धिः कथं प्राप्या । अनया सह सौमनस्ये वृत्ते शत्रयो निन्दा यदि कुर्युरित्यत आह-तत एतत्सौमनस्यसि- द्वेरत्र अरिणा शत्रुणा गर्हणा निन्दा वा भवतु या निन्दा दवीया दवाग्नि संबन्धिनी । तद्वत्संतापहेतुत्वादित्यर्थः । अथवा अरिणा तदीया एतत्संबन्धिनी पूजास्तु । वस्तुनि योगे प्रसक्त इति ॥ खादितरवैपरीत्यं सद्यो माद्यन्ति हन्त ये लब्ध्वा । मन्ये त एवं धन्या मान्यानन्यायमार्गमुज्झन्तः ॥ ७८॥ खेति । [वै०-] स्वात् धनात् इतरचैपरीत्यमन्यवैलक्षण्यं लब्ध्वा ये सद्यो माः श्रियो द्यन्ति खण्डयन्ति विभज्यार्थिभ्यः प्रयच्छन्ति । हन्त हर्षे । त एवं न्यायमार्ग न उज्झन्तो धन्या मान्या इति मन्ये ॥ [ श्रृ ० -] सुः आदिर्यस्य तत्स्वादि तत् 'तर'वैपरीत्यं रतम् । सुरतमि- त्यर्थः । तत्कुतश्चिल्लब्ध्वा ये सद्यो माद्यन्ति तुष्टा भवन्ति त एव धन्या इति मन्ये॥ मनोहरवयोन्विते तनुनिरस्तशीतातपे कदा सदलकानने भवतु योगसिद्धिस्तव । अये शृणु मयोदितं परमयोगिना दुर्लभ हृदा कलय माधवं सुमनसां यतो वैभवम् ॥ ७९ ॥ मेति । [वै०-] हे सखे, योगसिद्धिं चेद्वाञ्छसि तदा सदले कानने निविडपर्णाच्छादिते वने योगसिद्धिस्तव भवतु । किंभूते वने । मनोहरैर्वयो- भि: पक्षिभिरन्विते । तथा तन्वा शरीरेण निरस्तं शीतातपादिकं यन्न । कथं कदा योगस्ते सिध्येत् । अये मित्र, मयोदितमुक्तं शृणु परमयोगिनापि दु- र्लभं दुष्प्रापं यत्तदुपदिशामि । माधवं लक्ष्मीकान्तमेव हृदा कलय यतो विष्णो; सुमनसां तदेकचित्तानां वैभवं भवति ॥