पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२४ काव्यमाला। इयं रसज्ञा जिह्वा धन्या । यस्या जिह्वाया अच्युतास्पदं विष्णुविषयं निरन्तरं संभाषणं सद्यःफलवद्वर्तत इति शेषः । [श्रृ ०-] इयं रसज्ञा नव्या नूतना हारभृत् धन्या अधिकं यस्या अ- च्युतमास्पदं स्थलं यत्र तत्संभाषणं सद्यःफलदं नवरतं यस्मात् ॥ कृष्णाभीरवधूरतस्य लभते दास्यङ्गतस्ते सुखं लब्ध्वात्यन्तिकमङ्गनाशमसकौ विन्देत्कथं देवनम् । तस्मात्त्वामधुनाशनं स्वभजनं दातुं परं प्रार्थये नैतच्चेन्मम चेतसि स्फुरति न खर्गापवर्गादिकम् ।। ७५॥ कृष्णेति । [वै०-] हे कृष्ण, आभीरवधूरतस्य ते दास्यं गतः सुस्त्रं लभते । असकौ असौ पुरुषः आत्यन्तिकमङ्गस्य नाशं लब्ध्वा देवनं त्वचार- ताकर्णनकीर्तनगाननृत्यादिलक्षणं क्रीडनं कथं विन्देत् । मोक्षे पाषाणवद्भवन- मनर्थकमित्यर्थः । तस्मात् परं परमात्मानं मधुनाशनं त्वा त्वां स्वभजनं दातुं प्रार्थये । एतच्चेत्त्वद्भजनं न प्राप्तं मम चेतसि स्वर्गापवर्गादिकमपि न स्फुरति । [श्रृ ०-] कृष्णा श्यामा आभीरवधूस्तद्गतस्य तेऽङ्गतः पक्षाच्छरीराद्वा दासी सुखं लभते । यद्वा आभीरवधूः दास्या अङ्गतः दासी कुट्टनीं प्राप्यते रतस्य सुखं लभते । असकौ अङ्गना ते स्त्री आत्यन्तिकं शं सुखं लब्ध्वा पूर्व- मिदानी देवनं क्रीडनं त्वया सह कथं विन्देत् । भोजनमात्रेऽपि यतस्तस्याः संनेह-स्तस्मादधुना त्वां अशनं स्वभजनं च दातुं प्रार्थये । चेदिदं मदुक्तं न करोषि तदा मम चेतसि स्वर्गापवर्गादिकं अर्थात्तव न स्फुरति ॥ दृष्टा मनो हरति या सायोध्यारामवसतिराकलिता । तस्मादधिवसतैनां नित्यानन्दो मयानुभूयेत ॥ ७६ ॥ दृष्टेति । [वै०-] स्पष्टम् ॥ [श्रृ ०-] आरामे उपवने वसतिः स्थितिर्यस्याः दृष्टा सती मनो हरति या सा मयायोधि योधिता निष्ठुररतेन तोषिता । तस्मादेनाम् अधिवसता मया नित्यमानन्दः प्रात्यहिकः प्रमोदोऽनुभूयेत ॥ विशिष्टा नवायौवनश्रीस्तदस्यामवाप्या कथं सौमनस्यादिवृद्धिः । भवत्वत्र वागर्हणा यादवीया ततो वारिणैवास्तु पूजा तदीया ॥७७