पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसिकरञ्जनम् । १२३ ल्यसंपादने अनवरतं सदा अहिता संजाता। यत्परलोकसाधनं न जातमिति । [श्रृ ०--] हे सखे, चित्रमेव रचना यस्याः सा चित्रिणी स्त्री धात्रा मे ललाटतले लिखितास्ति 'त्वयोपभोग्येयम्' इति मनोरथस्य चातिक्रमेण चेग- वत्तयेति शेषः । यामे प्रहरे सर्वस्मिन्नपि नवरतेन नूतनेनोपरिरतेन महिता पृजिता उत्सवयुक्ता वा संजाता ॥ कासारे पद्मिनीयं मुकुलयुगमनत्यन्तरं यत्र हृद्यं यस्मिन्सद्यःसमुद्यद्गृहमतिकरजव्यापृतिः श्लाघनीया । तस्मादेतद्विशेषस्मृतिकलितमिह प्रेक्ष्य साक्षादुपेक्ष्यं वर्यं शौर्यं च नादौ न गमय समयं त्वं ब्रजस्त्रीहितज्ञः ॥७३॥ केति । [वै०-] कासारे सरसि इयं पद्मिनी कमलिनी । वर्तत इति रोषः । यत्र यस्यां हृद्यं मनोहरम् अत्यन्तरहितम् एकदेश एवं वर्तमानं मुकु- लयुगलमस्तीति शेषः । यस्मिन्मुकुलयुग्मे सद्यः समुद्यन्यो ग्रहपतिः सूर्य- स्तस्य करेभ्यो जाता व्यापृतिः सा श्लाघनीया स्तुत्या । तस्मात् शौरेः कृष्ण- स्वाञ्चनादौ पूजादौ विशेषस्मृया स्मृतिवचनेन 'मुकुलैर्नार्चयेद्विष्णु विना- कमलकोरकैः' इत्यादिना । वर्य श्रेष्टम् इह साक्षात् प्रत्यक्षनेत्रेण दृष्ट्वा स्वयं नोपेक्ष्यम् । व्रजस्त्रीभ्यो हितं कृष्णं जानातीति तथाविधस्त्वं समयं गमय । [श्रृ ०- ] इयं पद्मिनी । कासारे तिष्ठतीति शेषः । यद्वा । अरे, सेयं का पद्मिनीति विशेषप्रश्नः । यत्र यस्यां हृद्यं हृदयोद्भवस् अनत्यन्तरं मिथः संगतं मुकुलयुगमर्थात् पद्मकोशसमानं स्तनयुगलम् । अस्तीति शेषः । यस्मिन् सद्यः समुद्भवन् ग्रह आग्रहो ग्रहणं वा यस्यैवंविधो यः पतिर्भर्ता तस्य करजानां नखानां व्यापारः श्लाघनीयः । तस्मादेतत्स्तनयुगं विशेषस्मरणे कलितं सदा चिन्तितं कदा द्रक्ष्यत इति इह स्थले साक्षात् प्रत्यक्षतः प्रेक्ष्य वर्यं श्रेष्ठं शौर्य च प्रस्तावमेवंविधं न गमय न चापय । स्वीकृतमीहितं जाना- तीति स्त्रीहितज्ञस्त्वं व्रज एनां गृहाण ॥ नव्याहारभृदधिकं धन्या मृदुभाषिणी रसज्ञेयम् । सद्यःफलदनवरतं संभाषणमच्युतास्पदं यस्याः ॥ २० ॥ नेति । [वै०-] अधिकं न व्याहारं भाषणं बिभर्तीति मृदुभाषिणी च