पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२२ काव्यमाला। अचिरेण रोचते मे दिवसानेवं वृथातिवाहयते । श्रितकृष्णपक्षगतये वयस्य काम्यस्तनीविरहः ॥ ७० ॥ अचिरेणेति । वै०--] एवं वृथादिवसान्गमयते आश्रितवैष्णवगतये मे हे वयस्य, मनोज्ञस्तन्या विरहोऽचिरेण शीघ्रमेव रोचते ॥ [ श्रृ ०----] हे वयस्य, अद्यावधि एवमेव कालक्षेपं कुर्वते कृष्णपक्षे समाश्रितगमनाय मे अचिरेण कामिना अस्ता क्षिप्ता नीविर्यन्नैवंविधं रह एकान्तस्थलं रोचते ॥ परपुरुषविवादे लौकिकी मानचर्चा भवति न खलु युक्ता जाग्रति स्वप्रकाशे । तदिह मधुविरोधिन्यश्रुते साक्षिरूपे प्रभवति कुरु चेतोवृत्तिनिष्ठां गरिष्ठाम् ॥ ७१ ॥ परेति । [वै०-] परपुरुषस्य ब्रह्मणो विवादे प्रसक्ते सति लोकिकी लोकसिद्धा भानचर्चा अनुमानादिप्रमाणोपन्यासरूपा खलु निश्चयेन न युक्ता भवति । स्वप्रकाशे चैतन्यलक्षणे प्रमाणे जाग्रदूपे सति । तत्तस्मादिहास्मिन्म- धुरिपौ साक्षिस्वरूपे अश्रुते इयदवधि तव वेदान्तश्रवणरूपप्रथमप्रतिपत्य- गोचरे त्वं चेतोवृत्तिनिष्ठां गरिष्ठां कुरु ॥ [श्रृ ० -] हे भवति, परपुरुषेण समं विवादे कलहे सति खलु निश्च- येन अलौकिकी लोकमार्यादोल्लङिघनी मानचर्चा स्वप्रकाशे ज्ञाने जाग्रति सति' न युक्ता । अज्ञा परमेवं मानं करोति । त्वं तु ज्ञानसंपने इत्यर्थः । तत्त- स्माद् हे साक्षिरूपे नेत्रसौन्दर्यसहिते, मधुर्वसन्तो विरोधी यस्याः । विर- हादिति शेषः । एवंविधे, अश्रु नेत्रोदकं ते प्रभवति । चेतोवृत्तेर्निष्टाभिहा- स्मिन्पुरुषे गरिष्ठां कुरु ॥ सहचर मम भालतले विधिना लिखितास्ति चित्ररचनेयम् । यामेनवरतमहिता मनोरथातिक्रमेण संजाता ॥ ७२ ॥ सहेति । [वै०-] हे सहचर मित्र, मम भालतले ललाटपट्टे इयमेवं- विधा चित्रा अद्भुता रचना लिखितास्ति । या मे मनोरथानामतिक्रमेण नैष्फ-