पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसिकरञ्जनम् । १२१ रतीशसंगरं इतं प्राप्तम् । ततः केन हेतुनेदानीं भाविन्यां नीवीमुक्तौ संशयः॥ स्फुरति निरुपमानवर्तुलामा मम हृदि गोपसुताधिकाननश्रीः । कथमिव न लभेय शर्म तस्याविशदविचारनिरन्तरानुवृत्त्या ॥ ६७ ॥ स्फुरतीति । [वै०-] गोपसुतस्य नन्दसूनोरधिका आननश्रीर्मम हृदि स्फुरति । निरुपमाना वर्तुला आमा यस्याः । ततो विशदो निर्मलो यो विचा- रस्तेन निरन्तरमनुवृत्या शर्म सुखं कथं न लभेय प्राप्नुयाम् ॥ [श्रृ ०-] निरुपमा उपमारहिता नव ऋतुलाभो यस्या एवंविधा अत- एवाधिका आननश्रीर्यस्या एवंविधा गोपसुता स्फुरति मम हृदि वर्तते । वि- गतां तद्गृहं दूत्यादीनामविचारेण निरन्तरं चिरं या अनुवृत्तिस्तया तस्याः सकाशात् शर्म रतसुखं कथमिव न लभेय ।। यास्यति वयस्य कस्मादस्मितया ममतया कृतः क्लेशः । विदितमनन्योपायादच्युतचरणाम्बुजग्रहादेव ॥ ६८ ॥ यास्येति । [वै ०-] हे वयस्य, अस्मितयाहंकारेण ममत्या ममत्वेन च कृतो यः क्लेशः स कस्माद्यास्यति । अथवा विदितं स्पष्टम् ॥ [ श्रृ o -] हे वयस्य, अस्मितया स्म्रितशून्यया तया कृतो यो मम क्लेशः कस्माद्यास्यति । अथवा विदितं स्पष्टम् ॥ तां काञ्चनखर्गलतामवाप्य किमप्ययं गेहसुखं व्यनक्ति । करोति चेदेष परात्मनिष्ठां जीवन्विमुच्येत चिरात्कथंचित् ॥१९॥ तामिति । [वै०-] कांचन अनिर्वचनीयां सुष्टु अर्गला यत्रणा श्रुति- मृत्युक्ता यस्यासौ तस्त्र भावस्तत्ता तां प्राप्यायं पुमान् किमप्यनिर्वाच्यं गेह- सुखं प्रकटयति । एष पुरुषः परे आत्मनि विष्णौ निष्ठामासत्तिं चेत्करोति तदा चिरात्कथंचिज्जीवन्नेव विमुच्येत ॥ [ श्रृ ० -- ] काञ्चननिर्मिता स्वर्गस्येव लता तां स्त्रियं प्राप्यायं किमपि हसुखं प्रकटयति चेदेष परस्या आत्मनि शरीरे निष्ठामासक्तिं कुर्यात्तदा कथंचिन्महता कष्टेन 'चिरान्महता कालेन जीवन् विमुक्तो भवेत् । तस्याः शासनादिति शेषः॥