पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२० काव्यमाला । गर्गापवर्गाधभिलाषा हि निश्चयेन क्व न भवन्ति । त्वां विना किमन्यन्मे तन- मस्ति यत्सपदि संपर्कादुदर्कायोत्तरफलाय स्थात् ॥ [श्रृ ० -] हे पद्माक्षि, तव क्व कस्मिन् रत्तान्ते रतसमाप्तौ कामाः पुना रतोद्योगा न भवन्ति त्वां विना त्वव्द्यतिरेकेण मे किमन्यदस्ति तत्तस्मात्त्व- मेव सपदि संपर्कादुदर्कायोत्तरफलाय । श्रुता गीता लोकैर्जगति बहुशोभारतकथा यदीया लीलास्ते मम हृदि महोरूपचयभृत् । नरे सारथ्यादावुदितपरमार्थव्यवहृतिः समानात्मा साक्षात्कृतिविषयतामेष्यति कदा ॥६५॥ श्रुतेति । [वै०-] महोरूपयोस्तेजोलावण्ययोश्चयः समूहः । यद्वा महसां ज्योतिषां रूपाणां महीमहीधरसागरादीनां चयस्तं बिभर्तीति तथा.. विश्वरूपादिप्रसङ्गे तथात्वत्तथाविधा भारतकथारूपा यदीया लीला गीता लोकैर्जगति बहुशः श्रुता मम हृदि आस्ते । नरे अर्जुने सारथ्यादिसमये उ- दित उक्तः परमार्थों व्यवहृतिर्व्यवहारश्च येन सः मानात्मा प्रमाणरूपः स्व- प्रकाशो भगवान्कृष्णः कदा साक्षात्कृतेविषयतामेप्यति । [ [श्रृ ० -] यदीया रतकथा लोकैर्चिटजनैर्जगति बहुशोभा श्रुता गीता स्तुता च । यदीया लीला महान्तं ऊर्वोरुपचयं पीनत्वं बिभर्ति तादृशी मम हृदि आस्ते सा वेश्या रथ्याया आदौ मुखे उदित उक्तः परमस्य मह- तोऽर्थस्य धनस्य व्यवहार आदानलक्षणो यया सा समानो मानसहित आत्मा • यस्यास्तावद्धनलाभमन्तरेणानङ्गीकुर्वाणा साक्षात्प्रत्यक्षीभूय मे कृतेर्विषयत्वं गोचरत्वं कदा एष्यति ॥ चक्षुरपाङ्गाहितदृक्चेतश्चरतीशसङ्गरमितं ते । ननु भाविनीविमुक्तौ विचिकित्सा केन हेतुनेदानीम् ॥ ६६ ॥ चक्षुरिति । [वै०-] हे सखे, तव चक्षुरपाङ्गस्यापगतदेहस्य काम- स्थाहितं शिवं पश्यतीति तथा चेतश्च ते ईशसङ्गेन रमितं चरति । ननु इदानीं केन हेतुना ते विमुक्तो विचिकित्सा संशयः भाविनी ॥ [ श्रृ ० -] अपाङ्गयोर्नेत्रान्तयोराहिता दृष्टिर्येनैवंविधं ते चक्षुश्वेतश्च ते