पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसिकरञ्जनम् । ११९ ननु सर्वतो निवृत्तिः स्मर्तुः संभवति पुण्डरीकदृशः । द्वित्राण्यहानि जीवनमिह दुर्लभमित्यवेत्य विरतोऽस्मि ॥ ६२ ॥ नन्विति । [वै ०-] पुण्डरीकाक्षस्य स्मर्तुः सर्वतो निवृत्तिर्भवति । इह संसारे जीवनं द्विन्नाण्यप्यहानि नैयत्येन दुर्लभमित्यवेत्य विरतोऽस्मि ॥ [श्रृ ० ] पद्माक्ष्यास्तस्याः ऋतुः संभवति स्म । किं तत इत्यत आह- सर्वतश्रुम्बनालिङ्गनादेरपि निवृत्तिः । अतोऽस्पृश्यत्वात् द्विन्नाण्यहानि मम जीवनं दुर्लभमिति विरक्तोऽस्मि ॥ क्षेत्रज्ञे कमलाकरार्पितपदे सर्वागमान्तायने नित्यं दर्शनकाङिक्षभिः सुकृतिभिर्दृष्टे कथंचित्क्वचित् । ऋत्वारम्भपयोधरोन्नतिभवश्रीशालिनि श्रीधरे चेतश्चेन्मम वर्तते त्वयि कथं न स्यात्कृपा ते मयि ॥ ६३ ।। क्षेत्रेति । [ वै----] हे कृष्ण, श्रीधरे लक्ष्मीनिवासे त्वयि मम चेतो वर्तते चेत्कथं तव कृपा मयि न स्यात् । किंभूते क्षेत्रज्ञे । कमलायाः करे अर्पितं पदं येन । सर्वे ये आगमान्ता वेदान्तास्तत्रायनं यस्य । नित्यं दर्शनका- ङिक्षमि पुण्यवद्भिः कथंचिद्योगाभ्यासादिना कचिदृृष्टे ऋतोर्वर्षतोरारम्भे में- वानां या उन्नतिस्तद्भवा या श्रीस्तच्छालिनि ॥ [श्रृ ० -] कस्यचित्क्रांचित्प्रति संकेतनिवेदकं वचनम् हे क्षेत्रज्ञे इ- वादिक्षेत्रज्ञानवति, कमलाकरे सरसि अर्पितं पदं यया तद्गमनशीले, सर्वे- षामगामानां वृक्षाणामन्तेऽयनं गमनं यस्यास्तथाविधे। संबोधनत्रयेणैव संके- नस्थलवयं मया गन्तव्यमिति सूचितम् । नित्यं दर्शनकाङिक्षभिर्धन्यैः कथं- चित्वचिद्दष्टे ऋतौ ऋतुसमयस्यारम्भे या पयोधरयोरुन्नतिरुत्थानं तद्भवा या श्री: शोभा तच्छालिनि मयि तव कृपा कथं न स्याच्चेत् मम चेतो नि- रन्तरं त्वयि वर्तते ॥ तव पुण्डरीकदृष्टे क्व स्मरतां ते भवन्ति नहि कामाः । किं त्वा विनास्ति मेऽन्यत्तत्त्वमुदर्काय सपदि संपर्कात् ॥ ६४ ।। तवेति । [वै०-] है पुण्डरीकाक्ष, तव स्मरतां पुंसां ते प्रसिद्धाः स्व-