पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११८ काव्यमाला। सर्वांगमान्तप्रमितान्धकारे निवार्य कार्यान्तरचारि चेतः । अये दयालुमयि चेत्प्रसीद सीदन्तमिष्टोरुपदं नयाशु ॥ ५९ ॥ सर्वेति । [वै०-J सर्वैरागमान्तैर्वेदान्तै: प्रमित ज्ञात हे अन्धकारे महेश, कार्यान्तरचारि मम चेतो अये शुभावहविधौ निवार्य मयि दया- लुश्चेत् प्रसीद प्रसन्नो भव सीदन्तं माम् इष्टं उरु श्रेष्टं पदं खं चरणं नय पदं स्थानं वा आशु प्रापय ॥ [श्रृ ० ] कार्यान्तरचारि चेतो निवार्य सर्वे येऽगमा वृक्षास्तेषामन्ते मध्ये प्रमितो योऽन्धकारस्तत्र अये प्रिये यदि मयि दयालुस्तर्हि त्वद्विरहात् सीदन्तं मां यदिष्टमभिमतं यदुरुपदमूरस्थानं तदाशु नय ॥ सत्यं समर्तुकामः पुत्री भवति रवयं कुतः पुत्री । मत्वा विषमतिथिं यदि विद्वान्परिहरति विधिनिषेधज्ञः ॥६०॥ सत्यमिति । [वै०-] स्वयं विद्वान्विधिनिषेधज्ञः सन् यद्यतिथिं विर्ष मत्वानिष्टं ज्ञात्वा परिहरति विमुखं करोति तदा स गृहस्थः सत्यं मर्तुकाम आसन्नमृत्युः पुरुषोऽपि अप्रयोजकत्वेन पुत्री भवति कन्येव स्वपितुर्भवति । स्वयं कुतः पुत्री पुत्रवान् भवेत् । अतोऽतिथिसत्कारोऽवश्यं कार्यः ॥ [श्रृ ० -] स्वयं विद्वान् पण्डितो विधिनिषेधज्ञो यदि विषमां तिथि मत्वा पुत्रकामश्चेन्न परिहरति 'युग्मासु संविशेत्' इति विधेः । तदा सत्यं पुत्री पुत्रवान् भवति पुत्री कन्या कुतः स्यात् । यतोऽसौ स्वयं समे ऋतौ कामो यस्यैवंविधस्त्वमपि पुत्रकामश्चेत्तथा कुरु ।। नरीनृत्यमानं भुजंगोत्तमाङ्गे समाकर्ण्य तुष्यन्ति ये वर्ण्यमानम् । त एवात्र संसारिणो मुक्तबन्धा यदेषां विमोक्षाधिकानन्दलक्ष्मीः ॥६१॥ नरीति । [वै०-] स्पष्टोऽर्थः ॥ [[श्रृ ० -] भुजंगस्य विटस्थ उत्तमेऽङ्गे सुखसाधनत्वेन अर्थान्मेहने नरी मानुषी तस्या नृत्यस्य मानं नानाविधं परिमाणं वर्ण्यमानमाकर्ण्य ये कामि- नस्तुष्यन्ति त एवात्र संसारिणः संसारसुखभाजः । यतो मुक्ता बन्धा नाना- विधासनविशेषा यैस्ते तथा यत एषां विमोक्षाधिकानन्दसंपत् ॥