पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसिकरञ्जनम् । ११७ जानामि दुःखहेतुं सरस्य दुर्वारतान्तेषु । सद्यः सखे विरक्तिः प्रभवति विषयानुबन्धिनी यत्र ॥५६॥ जानेति । [वै०-] यत्र येषु पुरुषेषु विषयानुबन्धिनी विरक्तिः सद्यः प्रभवति परंतु हे सखे, तेषु स्मरस्य दुर्वारतां दुःखहेतुं जानमि तस्मात्काम- जये सति विरक्तिर्दष्टा भवति ॥ [ श्रृ ०---] हे सखे, रतसमाप्तिषु स्मरस्य दुर्वाः दुष्टमुदकं वीर्य दुःख- हेतुं जानामि । यत्र येषु रतान्तेषु सद्य एव विषयानुबन्धिनी विरक्तिर्भवति । अतः स्तम्भनाद्युपायं शिक्षयतो यावदिच्छं रतं निर्वहेत् ॥ कलितोरुचिरं न कर्म चेत्क्रियतेऽनङ्गकृतेः कुतः फलम् । सरतो हृदि पुण्डरीकदृग्भजतेऽसौ सफलस्ततः श्रमः ॥ ५७ ॥ कलीति । [वै० --] कलितः कलियुगाद्रुचिरं सङ्गं कर्म चेन्न क्रियते अनङ्गकृतेः अङ्गहीनाया यज्ञादिकृतेः कुतः फलं स्यात् । अत्रैकोऽस्त्युपायः । स्मरतः पुरुषस्य यज्ञादिकर्मकृतो हदि पुण्डरीकदृक् पुण्डरीकाक्षः भजते । ततः श्रमः सफलः॥ [ श्रृ ० - ] कलितौ दृष्टावूरू यत्र तत्कर्म रतं चिरं चेन्न क्रियते तदा अनङ्गकृतेरनङ्गकार्यस्य चुम्बनालिङ्गनादेः फलं कुतः । असौ पद्माक्षी स्मरतः। 'कामशास्त्रोक्तं रतविधिम्' इति शेषः । तस्य पुरुषस्य हृदि भजते हृदयं- गमा भवति । ततः श्रमोऽपि सफल एव ॥ अतिपरमाद्भुतवेषा काप्येषा जयति सृष्टिरात्मभुवः । तत्किं न वाञ्छितं स्यादस्या यदि विधुरवीक्षणः पाता ॥ ५८ ॥ अतीति । [वै-] अतिपरमा अत्युत्कृष्टा महीमहीधरसमुद्रादिरूपा अद्भुत आश्चर्यकारी वेषो मुखवैलक्षण्यादिः प्राणिनां यत्र तादृशी काप्यनि- र्वाच्या आत्मभुवो ब्रह्मणः सृष्टिर्जयति । यदि अस्याः सृष्ट ष्टेर्विधुरवी चन्द्रसूर्यो ईक्षणे नेत्रे यस्य स विष्णुः पाता तदा किं वाञ्छितं न स्यात् ॥ [ श्रृ० — -] अतिपरमोऽद्भुतो वेषो यस्याः सा काप्येषा आत्मभुवः का- मस्य सृष्टिर्जयति । यदि अस्याः पाता रक्षकः पतिर्वा विधुरं वीक्षणं यस्यैवंवि- धस्तदा समीहितं मम किं न स्यात् । स्यादेव ॥