पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११६ काव्यमाला। रुचिरजनिसौरभासावह्निविधुश्रीः पयोधराकलिता । विदितोऽस्तिमार्गणादेरात्मभुवोऽस्याः पितृप्रसूसमयः ॥ ५४ ॥ रूचीति । [वै०-] सौर्या सूर्यसंबन्धिन्या भासा पयोधरैर्मेधैराकलिता वह्निविध्वोरिवारुणा श्वेता च रुचिरजनि जाता । अतोऽस्या रुचेरात्मभुवो ब्रह्मणः । उपलक्षणमिदम् । अर्थाद्राह्मणस्य । पितृप्रस्वाः सायंसंध्यायाः सम- यो विदितः । किंभूतस्याल्मभुवः । आ समन्तादृचां गणा आर्गणाः । अस्ति विद्यते मा लक्ष्मीर्येभ्य एवंविधा अस्तिमास्ते च ते आर्गणाश्च तेषामादिभूत- स्थ । उपलक्षणमिदम् ऋगादिसकलवेदमूलस्य । ब्राह्मणस्य संध्यावन्दनसमयो जातस्ततो विधिनिषेधज्ञैरुत्तालैर्भाव्यम् ॥ [ श्रृ ० - ] असौ स्त्री पयोधराभ्यामाकलिता उद्गतस्तनी अह्नि दिवसे एव विधोरिव श्रीर्यस्या एवंविधा सुन्दरी रुचिरा जनिरुत्पत्तिर्यस्यैवंविधं सौरभं पद्मगन्धः स्वाभाविको यस्याः सा तथा । अतः पद्मिनीत्यवगम्यते । किं ततः । अस्याः पितृप्रसूः पितामही तत्समयः स्रानाद्यर्थं गमनकाल आत्मभुवो मार्गणादेः स्वकल्पितयाचकचारणशिल्पिविशेषादिच्छद्मदूतादेः सकाशाद्विदितो ज्ञातोऽस्ति । नव्यस्तनीतिपरिशीलयतो न सौख्य- साम्राज्यमस्तु कथमात्मभुवातिसृष्टम् । नान्नापि मर्दितमुरो यदि किं ततः स्या- त्तस्मान्निरन्तरमिदंभजनेन भाव्यम् ॥ ५५ ॥ नव्येति । [वै०---] न व्यस्ता नीतिर्यस्मिन्कर्मणि यथा स्यात्तथा आत्म- भुवा ब्रह्मणातिसृष्टं निर्मितं सौख्यस्य साम्राज्यं राज्यप्राप्त्यादिजन्यं कथं नास्तु । अपि तु भवतु । अत्रापि राज्यादिसौख्ये सत्यपि मर्दितो मुरो येन मुरजिद्वासुदेवो यदि न आराधित इति शेषः । ततः क्षयशीलेन सौख्येन किं स्यात् । अग्रेन किंचित् ।। [श्रृ ० -] इयं नव्यस्तनी परिशीलयतः पुंस आत्ममुवा कामेन अति- सृष्टं दत्तं सौख्यसाम्राज्यं कथं नास्तु । अन्नापि तत्परिशीलनेऽपि उरो यदि न मर्दितम् , ततः किं स्यात् । तस्मान्निरमिदंभजन उरोमर्दनासक्त्या भाव्यम् ।