पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसिकरञ्जनम् । अत्येति कामरणवेगमियं तनुस्त- दस्यामहोरुचिरभाग्यजनादितः स्यात् ॥ ५१ ॥ गाङ्गेति । [वै०-- ] गाङ्गेयमुख्यैर्भीष्मप्रभृतिभिर्मिता या तुङ्गा समस्ता नीतिस्तया गुप्तापि रक्षितापि विश्रुता प्रसिद्धा या कथा कीर्तिस्तद्रूपाभरणस- हितापि का तनुः किं राजादिशरीरं मरणचेगमत्येति अतिकामति । अपि तु क । तत्तस्मादस्यां तनौ इतोऽस्मादभाग्यजनाद्गुचिः स्यान्न भाग्यवतः ॥ [16— -] तनुः कृशाङ्गीयं कामरणे कंदर्पयुद्धे वेगमतिकामति लघुदे- हत्वेन विपरीतरतेऽतिवेगवतीत्यर्थः । तस्मादस्या मह उत्सवो रुचिरभाग्या- दितो मल्लक्षणाजनात्स्यात् । यद्वा अस्या महतोरूवाश्चिरं बहुकाल भजते म- होरुचिरभाकू यजनादितः पुण्यात्स्यात् ॥ अतिविशदानन्तपदप्रवृत्तदृष्टिर्न मधुरवीक्षणतः । तुष्यत्यञ्चितुकामः प्रातस्तनकमलमुकुलवीक्षणतः ॥ ५२ ॥ अतीति । [वै०--] मधुरवीक्षणतो वसन्तादित्यदर्शनादतिविशदेऽति- निर्मलेऽनन्तस्य विष्णोः पढ़े चरणे प्रवृत्तदृष्टिः कः पुरुषोऽञ्चितुकामोऽर्चनं क- तुकामः प्रातस्तनानां प्रातःकालिकानां कमलमुकुलानां दर्शनान्न तुप्यति ॥ [१० ] वसन्तादित्यदर्शनादतिनिर्मले आकाशस्थाने दत्तदृष्टिः प्रातर- चितुकामो यातुकामः कः कामी स्तनकमलमुकुलयोर्दर्शनेन न तुष्यति ॥ इह यादववंशकृष्णवानुगतिः साङ्गतया मयान्वभावि । अधुना तदवाप्तिचेतसे मे मधुराकामधुरापि रोचते किम् ॥ ५३॥ इहेति ।। वै० -] इह सतां समाजे यादववंशो यः कृष्णस्तस्य यम मार्गस्तदनुगतिः साङ्गत्वेन मयान्वभाधि । इदानीं तत्प्राप्तिचित्ताय मे मधुरा कामस्य धूः किं रोचते । अपि तु न । [ spo -] अङ्ग हे, दवेऽरण्ये वेणुधर्षणजन्यो यः कृष्णवर्मा वह्निस्तद- नुगतियां तत्र निपातरूपा सा तया मया चान्वभावि अनुभूता । अधुना तत्प्राक्षिमनसेऽपि में मधुरापि मधुराका बसन्तपूर्णिमा न रोचते ॥ १. आदर्शपुस्तकेऽस्य श्लोकोत्तरार्धस्य शृद्वारपक्षे टीका त्रुरितास्ति.