पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। प्राप्तैवेति । [ वै०--] सामानि गायतानेन सामगेन निर्वृतिश्री: सुखसं- यत् प्राप्तैव । तस्माद्धृदयग्रन्थेरहंकारस्य भेदने हेतुर्गानमेव अस्त्री छुरिकेति मन्ये ।। [श्रृ ०- -] गायतानेन निर्वृतिश्रीः सुखसंपद्रूपा निर्गतावृतिरवगुण्ठना- द्यावरणशोभा वा यस्याः सा सत्यं प्राप्तैवामानि । अग्रे स्पष्टम् ॥ गृहमधममुपेक्ष्यं कृष्णपक्षातिरागै- रविधुवनमुपेयं सद्भिरादौ निसर्गात् । क इह गतिमितोऽन्यां वक्तु कामातुराणां तदहमुपदिशामि श्रेयसे भूयसे यत् ॥ ४९ ॥ गृहेति । [ वै०-] कृष्णः पक्षो येषां तेषु अतिरागैर्वैष्णवपक्षपातिभिः गृहम् अधममित्युपेक्ष्यम् सद्भिरादौ निसर्गात्स्वभावाद् अविधु चन्द्राद्युद्दीपन- रहितं वनम् उपेयं गन्तव्यम् । कामैरभिलाषैरातुराणां क्केशभाजाम् इतोऽन्या गतिं को वक्तु । अहं तु यद्भूयसे श्रेयसे तद्रवीमि । [श्रृ ० -] कृष्णपक्षे अधिकरागैः सद्भिरघमं स्वायत्तं गृहं कलत्रमुफे- क्ष्यम् । विगतो धुर्यत्र तद्विधु, न विधु अविधु, घुसहितं वनं धुवनम् , आदौ निसर्गात् नेर्वर्णस्य सर्गात्सृष्टेः निधुवनं भवति तदुपेयं प्राप्तव्यम् । अन्यत्रेति शेषः । इतोऽन्यां कामातुराणां गतिं क इह कृष्णपक्षे वक्तु । अहं नु भूयः श्रेयोहेतुमुपदिशामि ॥ त्यक्तान्यविषयवृत्तिर्ध्यायति सारं श्रुतं मतं पुरुषम् । तदसौ कथं न विन्देत्परमानन्दं प्रयत्नपरचेताः ॥ ५० ॥ त्यक्तेति । [वै०-] असो पुरुषस्त्यक्तान्यविषयवृत्तिः सन् श्रुतं श्रु- तिवाक्येभ्यो मतमुपपत्तिभिः सारं सारभूतं पुरुष परमात्मानं ध्यायति । अग्रे स्पष्टम् ॥ [श्रृ ० -] सा स्त्री त्यक्तान्यविषया वृत्तिर्यया सा श्रुतं दूत्यादिमुखेन मतमभीष्टं पुरुषं ध्यायति । अरं शीघ्रं तत्तस्मादसौ पुरुषस्तस्याः संमतः कथं परमानन्दं न विन्देत् ॥ गाङ्गेयमुख्यमिततुङ्गसमस्तनीति- गुप्तापि विश्रुतकथाभरणाचितापि ।