पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसिकरञ्जनम् । ११३ लभ्येत पुष्कलपुरातनपुण्यपुञ्ज- पाकेन केवलमिदं भजनं जनेन ॥ ४५ ॥ सेति । [वै०--] कोऽपि कश्चिद्ब्रह्मापि वा तत्त्वं लभेत विष्णो रहस्यं प्राप्नुयात् । लक्ष्म्याः कम्रं कामुकं हरिं यदि बलेन बलभद्रेण हठेन वा साकं मनोभवमदेनोपलक्षितो मजेत | कामुकोऽपि हरिभजनेन तत्त्वं प्राप्नुयात् । इदं

भजनं (अस्य विष्णोर्भजनं) पुष्कलपुरातनपुण्यपुञ्जपरिपाकेनैव केवलं लभ्येत ।।

[श्रृ ० ] सा स्त्री मनोभवमदेन स्वद्रविणेन वा कं कम्रं कामुकं भजेत । अपि तु न कमपि । यदि कश्चित्कामी लक्ष्म्या बलेन द्रव्यव्ययसा- मर्थ्येन तत्त्वं तस्याः स्वरूपं लभेत । इदं भजनमस्या भजनं पूर्वपुण्यपुञ्जपरि- पाकेनैव लभ्यते ॥ आकलितोरुक्रमपदपद्मालंकृत्यनल्पपुण्यभवम् । निजगुणगुरुस्वरूपं काव्यञ्जयति प्रसन्नमतिमधुरम् ॥ ४६॥ आकेति । [वै०-] आकलिता स्वीकृता उरुक्रमस्य विष्णोः पदपद्ममेवा- लंकृतिर्येन । अनल्पात्पुण्याद्भवति तादृशम् । निजैर्गुणैः श्लेषप्रसादादिभिर्गुरु ग- रेष्ठस्वरूपं शब्दार्थरूपं यस्य तथाविध प्रसन्नमतिमधुरं काव्यं कवित्वं जयति ॥ [श्रृ ०-] इयं का स्त्री प्रसन्नमधुरं स्वरूपं व्यञ्जयति । कीदृशम् । आ- कलितः स्वीकृत उरुः श्रेष्ठो हंसादीनामिव क्रमो विक्षेपो येन तादृशं यत् पद- पद्मं तदेवालंकरणं यत्र । आकलित ऊर्वोः क्रमः अधिकमलालंकृतिर्नूपुरादिश्च यत्रेति वा । बहुपुण्यभवं निजैः सहजैर्गुणैर्गुरु गरिष्ठम् ॥ मनोभवध्यानपरायणानां तदन्यमिच्छाविषयं न वेद । अतस्तदामोदरसे निमग्नाः कथं नु संसारभयं लभन्ताम् ॥४७॥ मेति । [वै०-] भवस्य ध्यानमेव परमयनं येषां तेषां मनः तदन्यमि- च्छाविषयं न वेद । अतस्तध्द्यायानरसे निमग्नाः कथं संसारभीति लभन्ताम् ॥ [श्रृ ० -] मनोभवः कामस्तध्द्यानासक्तानां तदन्यमिच्छाविषयमहं न वेद । अग्रे स्पष्टम् ॥ प्राप्तैव निर्वृतिश्रीः सत्यं सामानि गायतानेन ।

तद्गानमेव मन्येस्त्रीहृदयग्रन्थिभेदने हेतुः ॥ ४८॥

८चतु०