पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११२ काव्यमाला। मिलितोऽष्टानामङ्गानां विधिर्न्यासविशेषो यत्र एवंविधो निरवधये सुखाय भवति । अग्ने स्पष्टम् ॥ पदयुगलं पद्मदृशो हृद्यारोपयति यः स्मरतिसमये । स कथं स्वर्गसुखान्यपि धन्यो मन्येत न तृणेभ्यः ॥ १२ ॥ पदेति । [वै०-] पद्मदृशः पुण्डरीकाक्षस्य पदयुगलं यो हृद्यारोप- यति, समये चरमावस्थायां सरति च, स धन्यः स्वर्गापवर्गसुखान्यपि-- तृणेभ्यो न मन्येत ॥ [श्रृ ० --] यः पुरुषः पद्माक्ष्याश्चरणद्वयं रतिसमये हृद्यारोपयति स्म । अग्रे स्पष्टम् ॥ मधुरिपुमधरं शिवं वरेण्यं वदति जनो विदितैतदीयतत्त्वः । तदहमिह महानुरागभूमावहरहरस्मि रहस्युदीततृष्णः ॥ ४३ ॥ मध्विति । [वै०-] अविदितमज्ञातमेतदीयं विष्णुसंबन्धि तत्त्वं येन एवंविधः शैवो जनो मधुरिपुम् अधरमपकृष्टं शिवं तु वरेण्यं श्रेष्ठं वदति ॥ यद्वा विदितशिवतत्त्वः शैवो जनो मधुरिपुमधरं शिवं वरेण्यं वदति । तत्त- स्मादहमिह मधुरिपौ शिवे वा महानुरागस्थाने उत्पन्नतृष्णोऽसि एकान्ते तद्धयानतृष्णोऽस्मि ॥ [ श्रृ ०.] विदितमेवदीयम् अधरसंबन्धि तत्त्वमत्यन्तमधुरस्वरूपत्वं येन सः अधरं मधुनो रिपुं वदति । शिवं मङ्गलरूपं वरेण्यं श्रेष्ठं वदति । तद- हमिहाधरे आरुण्यस्य प्रेम्णो वा भूमौ उत्पन्नतृष्णोऽस्मि ॥ परपुरुषजीवनार्यासङ्गोत्रसतां मिलत्यसत्त्यागात् । तस्मादपहाय भयं तदाप्तये तत्परः प्रवर्तेत ॥४४॥ परैति । [वै ०---] अत्र संसारे परः पुरुषः परमेश्वर एव जीवनं येषां तेषामार्याणां सतामासङ्गः असतां खलानां त्यागान्मिलति । अग्रे स्पष्टम् ॥ [ श्रृ ०.] अन्नसतां व्रासमकुर्वतां पुरुषाणाम् असत्त्यागादसद्वययात्परे पुरुषे जीवो यस्यास्तस्या नार्याः सङ्गो मिलति । अग्रे स्पष्टम् ॥ साकं मनोभवमदेन भजेत कम्रं लक्ष्म्या बलेन यदि कोऽपि लभेत तत्त्वम् ।