पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसिकरञ्जनम् । क्व सिध्यति समीहितं फलमनन्तचर्चामुचा- मतोऽजितविचारणापरमनोभिरानन्धते ॥ ३९॥ सदेति । [वै० -] अनेनसा निष्पापेण पुरुषेण भवे समुद्भवतां जन्मि- नां पद्धतिर्मार्गः कथं गम्यते । कीदृशी । सदा अतिकलुष आशयो यस्यां सा। तथा पुनः प्रसिद्धा नरकाः कुम्सीयाकादयो यस्यां सा । अमिता अप- रिच्छिन्ना । अनन्तस्य कृष्णस्य चर्चा मुञ्चन्तीति ते तथा तेषां समीहित- मभीष्टं फलं क्व सिध्यति, न क्वापि । अतोऽजितस्य विष्णोर्विचारणायां परा निष्ठा यस्यैवंविधं मनो येषां तैरानन्द्यते ॥ [श्रृ ० -] सा स्त्री अनेन कथं गम्यते, यतः सा प्रसिद्धैर्नरैः प्रभुभिः कामिता वान्छिता । अथ च सदा अतिकलुषाशया भवे संसारे समुत्सु सा- नन्देषु भवन्ती पदाहतिर्यस्याः सानन्दानपि पदा हन्तीत्यतिदुर्लभा अनन्ता अपरिमिता चर्चा योषिद्विषया तन्मुचां क्व समीहितं सिध्यति । अतः अजितं विचारणापरं मनो यैस्तैरानन्द्यते ॥ संसारिणापि सुलभं शश्वद्रामाश्रयेण नित्यसुखम् । अच्युतरसेन सद्यःफलवत्कालत्रयोगतः क्व भयम् ॥ ४०॥ समिति । [ वै०-] रामस्याश्रयेण संसारिणापि नित्यसुखं ब्रह्मानन्द सुलभमेव । अच्युतरसेन विष्णुविषयप्रेम्णा सद्यःफलवत् कालत्रयं यस्य स पुमान् क्व भयं गतः ॥ [श्रृ ० -] रामाया आश्रयेण शश्वत्संसारिणापि दैनंदिनं सुखं सुलभम् । अच्युतोऽस्खलितो यो रसस्तेन सद्यःफलवान् यः कालत्रश्रोणिसंबन्धी योगस्तत: क्व भयं कामादेरिति शेषः ॥ प्रमदाय निरत्ययाय पुंसां मिलिताष्टाङ्गविधिः समाधियोगः । अनुकूलकलत्रकोटिकण्ठग्रहणेनापि कुतः सुखं तथा स्यात् ॥ ४१ !! प्रमेति । [ वै०-] मिलित: अष्टानामङ्गानां यमादीनां विधिर्यत्रैवंविधः समाधियोगो निरत्ययाय सुखाय ब्रह्मानन्दाय भवति । अनुकूलानां कलत्राणां या कोटिस्तत्कण्ठग्रहणेनापि तथा सुखं कुतः स्यात् ॥ [ श्रृ ० — ] समः समान आधिर्यस्यास्तस्याः परस्त्रिया योगः संबन्धो