पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। चिराद्भूयोभूयः कलयसि सखेदो भवसुखं ततो मन्ये त्यागात्प्रभवति परा निर्वृतिरिति ॥ ३७ ॥ असाविति । [वै०-] चेतः संसारोचितमसौजन्यं दुर्वृत्तत्वं भावयति तदस्मिन् संसारे समयं वृथा किमिति गमयसि । अहह खेदे। चिरादनादौ संसारे भूयोभूयः सखेदोऽपि भवसुखं वाञ्छसि ततस्त्यागादेव निवृत्तिमार्गा- देव परा निर्वृतिर्भवेदिति मन्ये ॥ [ श्रृ ०-] असौ स्त्री कामोचितं जन्यं युद्धं रतं भावयति । तद्वृथा- स्मिन्संसारे समयं त्वं किमिति गमयसि । अहहेति खेदे । हे सखे, अदः संसारसुखं चिराद्भूयोभूयः परदारगमनजन्यं कलयसि वाञछसि । ततस्त्या- गाद्र्व्यदानात् परा या निर्वृतिः परस्त्रीसुखं प्रभवति । यद्वा परिणेयां कन्यां भविष्यत्स्वयंवरां विलोक्य सुन्दरं स्वमित्रमुद्दिश्य स एवाह–असौ जनी परिणेया कन्या समुचितं योग्यं वरं विचारयति । तत् त्वमञ्च चल, इतो भव अस्यां दिशि प्रवर्तस्व । सुन्दरतया त्वामेव वरीष्यते । अपि अहमपि वृथा आसं व्यर्थोऽभवम् । इयदवधि त्वदनुपदेशेनेति शेषः। सारे सारसूते अस्मिन्कन्यारक्षे कि समयं गमयसि । अहह सखे, अदो भवसुखं चिरात् भूयोभूयः पतिंवराप्राप्तिरूपं वाञछसि । ततो मन्ये प्रभवति प्रभौ त्वयि परा निर्वृतिः सुखानुभूतिः अत्यागात् अतिशयेनागतेति ॥ यद्भजनमत्र सारं क्यस्यसौहार्दतश्चिरासक्त्या । हृदयं गोपजनुर्में हरति सदूर्वाभया तन्वा ॥ ३८ ॥ यदिति । [वै०-] हे वयस्य, सौहार्दतः प्रेम्णश्चिरमासक्त्या च यस्य विष्णोर्भजनमत्र संसारे सारम् । स गोपजनुर्हरिः दूर्वासमकान्त्या तन्वा मे हृदयं हरति ॥ [श्रृ ० -- ] असौ गोपजनुर्गोपकन्या सती ऊर्वोराभा कान्तिर्यस्या एवं- विधया तन्वा देहेन मे हृदयं हरति । हार्दतः प्रेमतः चिरासक्त्या वयसि तारण्ये यद्भजनं सारभूतम् ॥ सदात्तिकलुषाशया भवसमुद्भवत्पद्धतिः प्रसिद्धनरकामिता कथमनेनसा गम्यते ।