पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसिकरञ्जनम् । कदेशो यस्यां सा। किं कुर्वन् ।रदरुचेर्दन्तकान्तेः संदीपनं यत् चतुरायास्तस्याः 'न न' इति वचनं ततो मुहुरतिशयेन स्पृहयन् । नकारस्य दन्त्यत्वात् ॥ भवनेत्रकृशानुभूतियोगात्परमैश्वर्यमवाप्यदृप्तचेताः बत वेदजनो निजां गतिं न प्रतिपद्येत कथं परात्मतत्त्वम् ॥३५॥ भवेति । [वै०-] अयं जनो लोकोऽस्मदादि: शिवदृष्टिवह्निभूतेः काम- स्य योगात् परमैश्वर्य प्राप्य दृप्तचितः सन् निजां गतिं न वेद । सांसारिकी- मपि गति कामधनमदेन न जानाति । परस्य ब्रह्मण आत्मनो जीवस्य तत्त्व- मैक्यलक्षणं कथं प्रतिपद्येत जानीयात् । न कथमपीत्यर्थ ॥ [श्रृ ० -] अन्न भवने अस्मिन्गृहे कृशा कृशाङ्गी अनुभवसंबन्धात् परमुत्कृष्टम् ऐश्वर्य मुक्तामणिकाञ्चनादिलक्षणम् अवापि प्रापिता । द्रव्यदा- नेनेयं प्रलोभ्य भुक्ता । अर्थान्मयेति शेषः । एतद्गृहे पुंव्यक्तिबाहुल्यात् कथं कोऽपि नाज्ञासीत् इत्यपेक्षायामाह-अदृतचेता उन्मादरहितः वेदजनो वेद- पाठको जनो निजामपि गतिम् अशनाच्छादनादिरूपां न जानाति । परेपा- मात्मनो हृदयस्य तत्त्वं कथं प्रतिपद्येत ॥ श्रितपरमहंसकरणाद्यस्मात्प्रतिभाति चित्ररचनेयम् । अनुगतपङ्कजरागो बत रागी तत्पदं समेतु कथम् ॥ ३६ ॥ श्रीतेति । [ वै०-] श्रितानि परमहंसानां संन्यासिना करणानीन्द्रियाणि येनैवंविधाद्यस्माद्विप्णोरियं चित्ररचना विचित्रा निश्वस्थितिः प्रतिभाति तत्पदं तस्य विष्णोः पदं चरणं स्थानं वा रागी जनः अनुगत: पङ्क: पापलक्षणो यया एवंविधां जरां गच्छतीति अनुगतपङ्कजरागोऽपि कथं समेतु ॥ [श्रृ ० -] श्रितः परमो हंसकस्य नूपुरस्य रणोऽतिशब्दो येनैवंविधा- यस्मात् पदश्चरणाद् इयं चित्रमेव रचना कृतिर्यस्याः सा चित्ररचना चित्रिणी प्रतिभाति । 'चित्रिणी चित्ररक्ता' इति प्रसिद्धेः । अनुगतोऽनुकृतः पङ्कजस्य कमलस्य रागो वर्णो येन सः तत्पत् स चासौ पच्च स चरणः तस्याः पत् , इति वा असं स्कन्धं कथम् एतु ॥ असौजन्यञ्चेतो भवसमुचितं भावयति त- द्रृथासंसारेऽस्मिन्नहह समयं किं गमयति ।