पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०८ काव्यमाला। [श्रृ ॰ -- ] अत्र भवेऽत्यन्तम् अङ्गनायाः शं सुखं विना विशिष्ट श्रेयः किं भवेत् । अतो धीमान् अत्यन्ताङ्गनासुखाय प्रयतेत । अन्यथा पुंसः कुतो निस्तारः॥ तुदति हिमालयपवनो माधवपरिशीलने न योगजुषम् । यस्मादयोगभाजां प्रभवन्ति पदे पदे विपदः ॥ ३२ ॥ तुदेति । [वै०-] हिमालयपवनो माधवस्य कृष्णस्य परिशीलने योग- जुषं न तुदति । अग्रे स्पष्टम् ॥ [श्रृ ॰ -] हि निश्वयेन मालयपवनो दक्षिणानिलो वैशाखस्य' परिशी- लने स्त्रीयोगसेविनं न तुदति । यतो यस्माद्दक्षिणानिलाद् अयोगभाजां विर- हिणां पदे पदे विपदः प्रभवन्ति ॥ विद्याधनाभिजनकाममदेषु पुंसा दुर्वार एष चरमस्तदहं ब्रवीमि । रामात्मकं जगदिदं हृदि भावयन्तः कंदर्पमेकमवलम्बितुमुत्सहेरन् ॥ ३३ ॥ विद्येति । [वै०--] विद्याधनकुलकामजन्यमदचतुष्टये चरमः काममद एव दुरपनेयः । ततोऽहं ब्रवीमि । इदं जगद् राममयं हृदि भावयन्तः सन्तः कम् एकं दर्पम् एतेष्वन्यतमम् अवलम्बितुम् उत्साहं कुर्युः । नैकमपि ॥ [श्रृ ० -] काममदः सर्वेषु मदेषु दुर्वारस्ततोऽहं ब्रवीमि जगदिदं स्वीमयं । भावान्तः कामिन एकं कंदर्पमेव अवलम्बितुम् उत्सहेरन् । नारदरुचिसंदीपनचतुराननवादतो मुहुः स्पृह्यन् । आश्लिष्टशेषशय्यां धन्यो रामाकृतिं चिरं भजते ॥ ३४ ॥ नारेति । [वै०-] धन्यः कोऽपि पुरुषश्चिरं रामस्य विष्णोराकृतिमाकार- विशेषम् आलिङ्गितशेषशयनीयां भजते । नारदस्य मुने रुचिः प्रीतिस्तत्संदी- पनं यञ्चतुराननस्य ब्रह्मणो वचनं तस्मान्मुहुः स्पृहां कुर्वन् ॥ [श्रृ ०] धन्यो ना पुरुषो रामायाः स्त्रियाः कृति संभोगलक्षणां चिरं भजते । कीदृशीं कृतिम् । आश्लिष्टा आलिङ्गिता शेषा अवशिष्टा शय्या तदे- 1