पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसिकरञ्जनम् । १०७ [श्रृं ० -] असती स्वरूपेण मुग्धं शश्वदद्वितीयेन भावेन कटाक्षादिना स्पृशति चक्षुःप्रीतिमुत्पादयति । इदं दृशि अस्या नेत्रे आत्मनो मायया वशीक- रणौषधादिमेलनेन कलितं निहितम् अञ्जनं भ्रमयति विकलयति च तमेव ॥ पूर्वमेव शिवसन्निधौ वने द्वन्द्वपीडनमुदेति सर्वथा । कोऽपवर्गभजनेऽतिनिःस्पृहोऽयत्नतः सुखमवाप्यते यदि ॥२९॥ पूर्वमिति । वै०-] शिवस्य संनिधौ वने पूर्वमेव द्वन्द्वपीडनं सर्वथो- देति अयत्नत एव यदि सुखमवाप्यते । तदा अपवर्गभजने मोक्षभजने को निःस्पृहः स्यात् इति कश्चिदुपदिशति ॥ [श्रृ ॰ -] निश्च धुश्च निधू पूर्वमेव आदावेव शिवौ शुमौ सन्तौ निधू वणौं यस्यैवंविधे वने । निधुवन इत्यर्थः । तत्र सर्वथा सुरते द्वन्द्वपीडनम् अर्थात् कुचनितम्वादिपीडनमुदेति । यदि यत्नतः सुखमवाप्यते तदा अप- वर्गभजने पवर्गरहिते भजनशब्दे अर्थात् जने को अतिनिःस्पृहोऽस्ति । सर्वोऽपि सुखार्थ यतत्न इत्यर्थः ॥ अतिरुचिरङ्गजकृत्त्या क्षोभितदक्षं भवन्तमेव भजे । यस्मिन्प्रसादसुमुखे सद्यो वामापि भवति मम तुष्टयै ॥ ३०॥ अतीति । [वै०-] गजकृत्त्या गजचर्मणा अस्यन्तभव्यं तं भवं शिव- मेव भजे । क्षोभितो दक्षः प्रजापतिर्येन तम् । यस्मिन्प्रसादसुमुखे सति सद्यस्तस्य वामा गौर्यपि मम तुष्टयै भवेत् ॥ [श्रृ ॰ -] अङ्गजस्य कामस्य कृती रत्यभिलाषादिरूपा तया अतिरुचि- रत्यन्तप्रीतिमान् अहं क्षोभितचतुरं भवन्तं त्वामेव भजे । यस्मिंस्त्वयि प्रसा- दसुमुखे सति सद्य एव वामापि प्रतिकूलापि सा मम तोषाय भवति- इति कस्यचिन्मानिनीप्रसादकं प्रति वचनम् ॥ विना किमात्यन्तिकमङ्गनाशं श्रेयो भवेदत्र भवे विशिष्टम् । अतस्तदर्थं प्रयतेत धीमान्कुतोऽन्यथा निस्तृतिरस्ति पुंसः ।। ३१ ॥ विनेति । [वै ० -] अन्न भवे संसारे आत्यन्तिकम् अङ्गस्य देहस नाशं विना विशिष्टं श्रेयो मोक्षः किं भवेत् । अतो धीमान् पुमान् आत्यन्तिकशरी- रनाशाय प्रयतेत ॥