पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसिकरञ्जनम् । यासौ संसृतिनिर्वृतिस्थितिरतिक्लिष्टा कुचेष्टाकृति- स्तामेवानुदिनं विचारयति यः स्यादेष दोषानुगः । अस्सिन्सारमते निधाय हृदयं निर्द्वन्द्वपीडः स्थिरा- मन्दानन्दचिरानुभूतिरभजद्योगेन सद्यः फलम् ॥ १२०॥ येति । [वैः -] या असौ संसृतिनिर्वृतेः संसारसुखस्य स्थितिः अति- किल्ष्टा क्लेशानुषङगवती । कुत्सिता या चेष्टा तस्कृतिः पश्चादिसाधारणरतजन्या तामेव योऽनुदिन विचारयति एष पुमान् दोषानुगो रागादिदोषकिंकरः स्यात् । अयं पुमानस्मिन् सारमते सारभूते मते योगाभ्यासलक्षणे हृच्चित्तं निधाय निर्गता द्वन्द्वपीडा शीतोष्णादिबाधा यस्मादेवंविधः सन् स्थिरामन्दानन्दस्य जह्वावाप्तिसुखस्य चिरमनुभवो यस्यैवंविधो योगेन सद्यः फलमभजत् ॥ [ श्रृ o.-] यासी स्त्री संसारसुखस्थानरतिक्लिष्टा कुचाभ्यामिष्टा मनोज्ञा आकृतिराकारो यस्यास्तामेव योऽनुदिनं विचारयति एष पुमान् दोषा रात्रि- स्तदनुगलदनुसरणशीलः स्यात् । सा स्त्री अस्मिन्पुंसि रमते । किं कृत्वा । हृद्धृदयं मनो वक्षो वा निधाय । अयं पुमान्नितरां द्वन्द्वस्यार्थात्कुचयुग्मस्य पीडा यस्मात् सः । तथा स्थिरा अमन्दानन्दस्याधिकसुखस्य चिरमनुभूतिर्य- स्यैवंविधो योगेनास्याः संबन्धेन सद्यः फलमभजदिति ॥ वसन्ते संजाते धरणिभृदपत्योत्सवविधा. वसावङ्गीकुर्यान्नवरणमनङ्गस्य भवतः । विहायेहान्येहां कलितसुमना माधवपदे विधेहि खं धीरं प्रथममथवेदं कथय नः ॥ १२१ ॥ वसन्त इति ।[वै०--- ] वसन्ते संजाते चैत्रे समागते धरणिभृतो हिम- वतोऽपन्यस्य दुर्गाया उत्सवविधौ असौ यजमानः अनङ्गस्य अङ्गदीनस्य ने वग्णं नाङ्गीकुर्यात् तसान्मदुक्तं श्रृणोषि चेत्तद्वाहमुपदिशामि । इहोत्सचे अ- न्येहां द्रव्यप्राप्तिवाञ्छां विहाय माधवस्य कृष्णस्य पदे कलितं स्थापितं सुष्ठु मनो येनैवंविधः सन् प्रथममादौ स्वमात्मानं धीरं विधेहि । अथानन्तरं नोऽ- स्मम्यं वेदं कथय विष्णुप्रीत्यै अस्मदग्रे वेदपाठं कुर्विति ।।