पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/४६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 219 ) (8) गणदास:--इदानीमेव पञ्चाङ्गाभिनयमुपदिश्य.. -माल. (7) परिव्राजिका-देव शर्मिष्ठायाः कृर्ति चतुष्पदोत्थं छलिज दुष्प्रयोज्यमुदाहरन्ति । --माल.. (8) गणदासः-देव शर्मिष्ठायाः कृतिर्लयमध्या चतुष्पदास्ति । तस्याश्चतुर्थवस्तुनः प्रयोगमेकमनाः श्रोतुमर्हति देवः।-माल० II. (9) अभिनयान्परिचेतुमिवोद्यता मलयमारुतकम्पितपल्लवा। अमदयत्सहकारलता मनः सकलिका कलिकामजितामपि ॥--रघु० IX.29. (10) श्रुतिसुखभ्रमरस्वनगीतयः कुसुमकोमलदन्तरुचो बभुः । उपवनान्तलताः पवनाहतैः किसलयैः सलयैरिव पाणिभिः । --E. IX. 35. (11) अङ्गसत्ववचनाश्रयं मिथः स्त्रीषु नित्यमुपधाय दर्शयन् । स प्रयोगनिपुणैः प्रयोक्तृभिः संजघर्ष सह मित्रसंनिधौ । -रघु० XIX.36 (12) तौ सन्धिषु व्यजितवृत्तिभेदं रसान्तरेषु प्रतिबद्धरागम् । अपश्यतामप्सरसा मुहूर्तं प्रयोगमाद्यं ललिताङ्गहारम् ॥ --कुमार० VII.91. (13) सुसंधिबन्ध नन्तुः सुवृत्तगीतानुगं भावरसानुविद्धम् । -कुमार० XI. 36.