सामग्री पर जाएँ

पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 147 ) सुनयना तिरोहिता। (परिक्रम्यावलोक्य च ) इमं तावत्प्रियाप्रवृत्तये सारङ्गमासीनमभ्यर्थये । अभिनवकुमुमस्तबकिततरुवरस्य परिसरे मदकलकोकिलकूजितमधुपझंकारमनोहरे । नन्दनविपिने निजकरिणीविरहानलेन संतप्तो विचरति गजाधिपतिरैरावतनामा ॥ ५६ ॥ (गलितकः । जानुभ्यां स्थित्वा।) कृष्णसारच्छबिर्योऽयं दृश्यते काननश्रिया । वनशोभावलोकाय कटाक्ष इव पातितः ॥ १७ ॥ ( चर्चरी ।) सुरसुन्दरी जघनभरालसा पीनोत्तुङ्गघनस्तनी स्थिरयौवना तनुशरीरा हंसगतिः । गगनोज्ज्वलकानने मृगलोचना भ्रमन्ती दृष्टा त्वया तद्विरहसमुद्रान्तरादुत्तारय माम् ॥ ५८ ॥ ( उपसृत्याञ्जलिं बध्वा ) हंहो हरिणीपते, अपि दृष्टावानसि मम प्रियां वने कथयामि ते तदुपलक्षणं शृणु । पृथुलोचना सहचरी यथव ते मुभगं तथैव खलु सापि वीक्षते ॥ ५९॥ कथमनादृत्य मद्वचनं कलत्राभिमुखं स्थितः । सर्वथोपपद्यते-परिभवा- स्पदं दशाविपर्ययः । यावदन्यमवकाशमवगाहिष्ये । (परिक्रम्या- वलोक्य च ।) हन्त, दृष्टमुपलक्षणं तस्या मार्गस्य ।