पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(148) रक्तकदम्बः सोऽयं प्रियया धर्मान्तशासि यस्येदम् । कुसुममसमग्रकेसरविषममपि कृतं शिखाभरणम् ॥ ६० ॥ तन्कि न खलु शिलाभेदगतं नितान्तरक्तमिदमवलोक्यते । प्रभालेपी नायं हरिहतगजस्यामिषलवः स्फुलिङ्गः स्यादग्नेर्गहनमभिवृष्टं पुनरिदम् । अरे रक्ताशोकस्तबकसमरागो मणिरयं यमुद्धर्तुं पूषा व्यवसित इवालम्बितकरः ॥ ११ ॥ सन्तु आदास्ये तावत् । (ग्रहणं नाटयति।) प्रणयिनीबद्धास्वादो बाष्पाकुलनिजनयनः । गजपतिर्गहने दुःखितः परिभ्रमति क्षामितवदनः ॥ ६२ द्विपदिकयोपसृत्य गृहीत्वात्मगतम् ।) मन्दारपुष्पैरधिवासितायां यस्याः शिखायामयमर्पणीयः । सैव प्रिया संप्रति दुर्लभा मे मैंवैनमश्रूपहतं करोमि ॥ ६॥ (इत्युत्सृजति ।) ( नेपथ्ये ।) वत्स, गृह्यतां गृह्यताम् । संगमनीयो मणिरिह शैलमुताचरणरागयोनिरयम् । आवहति धार्यमाणः संगममाशु प्रियजनेन ॥ ६४ ॥ राजा-(ऊर्ध्वमवलोक्य ।) को मामनुशास्ति । ( विलोक्य । अथवान्मृगराजधारी। भगवन् , अनुगृहीतोऽहममुनोपदेशेन मणिमादाय ।) हंहो संगममणे,