पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 116 ) यथाविद्धं याति स्खलितमभिसंधाय बहुशो नदीभावेनेयं ध्रुवमसहना सा परिणता ॥ ५२ ॥ भवतु । प्रसादयामि तावदेनाम् । अनन्तरे कुटिलिका।) प्रसीद प्रियतमे सुन्दरि एनया क्षुभिताकरुणविहङ्गमके नत्या । सुरसरित्तीरसमुत्सुकैणके अलिकुलझंकारिते नदि ॥ ५३ ॥ ( तेन कुटिलिकान्तरे चर्चरो ।) पूर्वदिक्पवनाहतकल्लोलोद्गतबाहु- र्मेघाङ्गैर्नृत्यति सललितं जलनिधिनाथः । हंसरथाङ्गशङ्खकुङ्कुमकृताभरणः करिमकराकुलकृष्णकमलकृतावरणः । वेलासलिलोद्वेल्लितहस्तदत्ततालो- ऽवस्तृणाति दशदिशो रुद्ध्वा नवमेघकालः ॥ ५४ ।। (चर्चरीकयोपसृत्य जानुभ्यां स्थित्वा ।) त्वयि निबद्धरतेः प्रियवादिनः प्रणयभङ्गपराङ्मुखचेतसः । कमपराधलवं मम पश्यसि त्यजसि मानिनि दासजनं यतः ॥ ५५ ॥ कथं तूष्णीमेवास्ते । अथवा परमार्थतः सरिदियं नोर्वशी । अन्यथ कथं पुरूरवसमपहाय समुद्राभिसारिणी भवेत् । अनिर्वेदप्राप्यार्षि श्रेयांसि । भवतु। तमेवोद्देशं गच्छामि, यत्र मे नयनयोः स