पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

91 Shakuntala receiving the blessings and advice of her elders and friends at the hermitage of Kashyapa, at the time of her departure for her husband's house. (ततः प्रविशति यथोद्दिष्टव्यापारासनस्था शकुन्तला । ) तापसीनामन्यतमा—(शकुन्तला प्रति ) जाते, भर्तुर्बहुमानसूचकं महादेवीशब्द लभस्व । द्वितीया-वत्से, वीरप्रसविनी भव । ततीया-वत्से, भर्तुर्बहुमता भव । ( इत्याशिषो दत्वा गौतमीवर्ज निष्क्रान्ताः ।) सख्यौ-(उपसृत्य ) सखि, सुखमज्जनं ते भवतु । शकुन्तला—स्वागतं मे सख्योः । इतो निषीदतम् । उभे—( मङ्गलपात्राण्यादाय उपविश्य ) हला सज्जा भव । याव- न्मङ्गलसमालम्भनं विरचयावः । शकुन्तला—इदमपि बहु मन्तव्यम् । दुर्लभमिदानी मे सखीमण्डनं भविष्यति । (इति बाष्पं विसृजति ।) उभे—सखि, उचितं न ते मङ्गलकाले रोदितुम् । (इत्यश्रूणि प्रमृज्य नाट्येन प्रसाधयतः।) प्रियंवदा–आभरणोचितं रूपमाश्रमसुलभैः प्रसाधनैर्विप्रकार्यते । (प्रविश्योपायनहस्तौ ।) ऋषिकुमारकौ-इमलंकरणम् । अलंक्रियतामत्रभवती । (सर्वा विलोक्य विस्मिताः।) गौतमी-वत्स नारद, कुत एतत् ? प्रथमः -तातकाश्यपप्रभावात् ।