पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(92) .. गौतमी-किं मानसी सिद्धिः ? द्वितीयः—न खलु । श्रूयताम् । तत्रभवता वयमाज्ञप्ताः शकुन्तलाहेतोर्वनस्पतिभ्यः कुसुमान्याहरतेति । तत इदानीं- क्षौमं केनाचिदिन्दुपाण्डु तरुणा माङ्गल्यमाविष्कृतं निष्ठ्यूतश्चरणोपभोगसुलभो लाक्षारसः केनचित् । अन्यभ्यो वनदेवताकरतलैरापर्वभागोत्थितै- र्दत्तान्याभरणानि तत्किसलयोद्भेदप्रतिद्वन्द्विभिः ॥ ४ ॥ पियंवदा—(शकुन्तला विलोक्य ) हला, अनयाभ्युपपत्त्या सूचिता ते भर्तुर्गेंहेऽनुभवितव्या राजलक्ष्मीरिति । ( शकुन्तला ब्रीडां रूपयति ।) प्रथमः-~गौतम, एह्येहि । आभिषेकोत्तर्णािय काश्यपाय वनस्पतिसेवां निवेदयावः । द्वितीयः–तथा । (इति निष्क्रान्तौ।) सख्यौ-अये, अनुपयुक्तभूषणोऽयं जनः चित्रकर्मपरिचयेनाङ्गेषु त आभरणविनियोगं करोति । शकुन्तला-जाने वां नैपुण्यम् । ( उभे नाट्येनालंकुरुतः ।) (ततः प्रविशति स्नानोतीर्णः काश्यपः ।) काश्यप:- यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया कण्ठः स्तम्भितबाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम् । वैक्लव्यं मम तावदीदृशमिदं स्नेहादरण्याकैसः पीड्यन्ते गृहिणः कथं नु तनयाविश्लेषदुःखैर्नवैः ॥ ५ ॥