पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 78 ) वैखानसं किमनया व्रतमा प्रदाना- व्द्यापाररोधि मदनस्य निषेवितव्यम् । अत्यन्तमेव मदिरेक्षणवल्लभाभि- राहो निवत्स्यति समं हरिणाङ्गनाभिः ॥ २३ ॥ प्रियंवदा-आर्य, धर्मचरणेऽपि परवशोऽयं जनः । गुरोः पुन- रस्या अनुरूपवरप्रदाने संकल्पः । राजा-( आत्मगतम् ) न दुरवापेयं खलु प्रार्थना । भव हृदय साभिलाषं संप्रति संदेहनिर्णयो जातः । आशङ्कसे यदि तदिदं स्पर्शलम रत्नम् ॥ २४ ॥ शकुन्तला—( सरोषमिव ) अनसूये, गमिष्याम्यहम् । अनसूया-किंनिमित्तम् ? शकुन्तला-इमामसंबद्धप्रलापिनीं प्रियंवदामार्यायै गौतम्यै निवे- दयिष्यामि । अनसूया-सखि, न युक्तमकृतसत्कारमतिथिविशेषं विसृज्य स्वच्छन्दतो गमनम् । ( शकुन्तला न किंचिदुक्त्वा प्रस्थितैव ।) राजा--(ग्रहीतुमिच्छन्निगृह्यात्मानम् , आत्मगतम् ) अहो चेष्टा- प्रतिरूपिका कामिजनमनोवृत्तिः । अहं हि- अनुयास्यन्मुनितनयां सहसा विनयेन वारितप्रसरः । स्थानादनुच्चलन्नपि गत्वेव पुनः प्रतिनिवृत्तः ॥ २५ ॥ प्रियंवदा ( शकुन्तला निरुध्यः 1) हला न ते युक्तं गन्तुम् । शकुन्तला-( सभ्रभङ्गम् ) किंनिमित्तम् ?