( 77 ) --उज्झितशब्देन जनितं मे कौतूहलम् । आ मूलाच्छ्रो- तुमिच्छामि । अनसूया--शृणोत्वार्यः । गौतमीतीरे पुरा किल तस्य राजर्षेरुग्रे तपसि वर्तमानस्य किमपि जातशङ्कैर्देवैर्मेनका नामाप्सराः प्रेषिता नियमविघ्नकारिणी। राजा--अस्त्येतदन्यसमाविभीरुत्वं देवानाम् । अनसया-ततो वसन्तोदारसमये तस्या उन्मादयितृ रूपं प्रेक्ष्य- इत्यर्थोक्ते लज्जया विरमति ।) राजा-परस्ताज्ज्ञायत एव । सर्वथाप्सर:संभवैषा । अनसुया. अथ किम् ? राजा--उपपद्यते । 1 मानुषीषु कथं वा स्यादस्य रूपस्य संभवः । न प्रभा तरलं ज्योतिरुदेति वसुधातलात् ॥ २२ ॥ (शकुन्तलाधोमुखी तिष्ठति।) राजा--( आत्मगतम् ) लब्धावकाशो मे मनोरथः । किंतु सख्याः परिहासोदाहृतां वरप्रार्थनां श्रुत्वा धृतद्वैधीभावकातरं मे मनः । पियंवदा---( सस्मितं शकुन्तलां विलोक्य नायकामिमुखी भूत्वा ) एन- रपि वक्तुकाम इवार्यः । ( शकुन्तला सखीमङ्गुल्या तर्जयति ।) राजा--सम्यगुपलक्षितं भवत्या । अस्ति नः सच्चरितश्रवणलोभादन्यदपि प्रष्टव्यम् । प्रियंवदा--अलं विचार्य। अनियन्त्रणानुयोगस्तपस्विजनो नाम राजा--इति सखीं ते ज्ञातुमिच्छामि ।
पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३२३
दिखावट