पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 76 ) राजा—( आत्मगतम् ) कथमिदानीमात्मानं निवेदयामि, कथं वात्मापहारं करोमि ? भवतु । एवं तावदे । (प्रकाशम् ) भवति यः पौरवेण राज्ञा धर्माधिकारे नियुक्तः सोऽहमविघ्नक्रियो- पलम्भाय धर्मारण्यमिदमायातः । अनसूया-सनाथा इदानीं धर्मचारिणः । ( शकुन्तला शृङ्गारलज्जां रूपयति ।) सख्यौ-( उभयोराकारं विदित्वा, जनान्तिकम् ) हला शकुन्तले, यद्यत्राद्य तातः संनिहितो भवेत् । शकुन्तला--ततः किं भवेत् ? सख्यौ—इमं जीवितसर्वस्वेनाप्यतिथिविशेष कृतार्थं करिष्यति । शकुन्तला-युवामपेतम् । किमपि हृदये कृत्वा मन्त्रयेथे । न युवयोर्वचनं श्रोष्यामि। राजा-वयमपि तावद्भवत्योः सखीगतं किमपि पृच्छामः । सख्या-आर्य, अनुग्रह इवेयमभ्यर्थना । राजा-भगवान् काश्यपः शाश्वते ब्रह्मणि स्थित इति प्रकाशः। इयं च वः सखी तदात्मजेति कथमेतत् ? अनसया-शृणोत्वार्यः । अस्ति कोऽपि कौशिक इति गोत्र- नामधेयो महाप्रभावो राजर्षिः । राजा--अस्ति । श्रूयते । अनसूया--तमावयोः प्रियसख्याः प्रभवमवगच्छ । उज्झितायाः शरीरसंवर्धनादिभिस्तातकाश्यपोऽस्याः पिता ।