सामग्री पर जाएँ

पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 75 ) राजा---( शकुन्तलाभिमुखो भूवा ) अपि तपो वर्धते ? ( शकुन्तला साध्यसादवचना तिष्ठति । ) अनसूया---इदानीमतिथिविशेषलाभेन । हला शकुन्तले, गच्छोरजम् । फलमिश्रमर्घमुपहर । इदं पादोदकं भविष्यति । राजा-भवतीनां सूनृत्यैव गिरा कृतमातिथ्यम् । प्रियंवदा-तेन ह्यस्यां प्रच्छायशीतलायां सप्तपर्णवेदिकायां मुहू- र्तमुपविश्य परिश्रमविनोदं करोत्वार्यः राजा--नूनं यूयमप्यनेन कर्मणा परिश्रान्ताः । अनसूया---हला शकुन्तले, उचितं नः पर्युपासनमतिथीनाम् । अत्रोपविशामः'। ( इति सर्वा उपविशन्ति । ) शकुन्तला-( आत्मगतम् ) किं नु खल्विमं प्रेक्ष्य तपोवनविरोधिनो विकारस्य गमनीयास्मि संवृत्ता ? राजा-( आत्मगतम् ) अहो समवयोरूपरमणीयं भवतीनां सौहार्दम् । प्रियंवदा-( जनान्तिकम् ) अनसूये, को नु खल्वेष चतुरगम्भी- राकृतिश्चतुरं प्रियमालपन्प्रभाववानिव लक्ष्यते ? 'अनसूया-सखि, ममाप्यन्ति कौतूहलम् । पृच्छामि तावदेनम् । प्रकाशम् ) आर्यस्य मधुरालापजनितो विश्रम्भो मां मन्त्रयते-कतम आर्येण राजवंशोऽलंक्रियते, कतमो वा विरहपर्युत्सुकजनः कृतो देशः, किंनिमित्तं वा सुकुमारतरोऽपि तपोवनगमनपरिश्रमस्यात्मा पदमुपनीतः ? शकुन्तला—( आत्मगतम् ) हृदय, मोत्ताम्य । एषा त्वया चि- न्तितान्यनसूया मन्त्रयते । , 7