(79) प्रियंवदा-वृक्षसेचने द्वे धारयसि मे । एहि तावत् । आत्मानं मोचयित्वा ततो गमिष्यसि ( इति बलादेनां निवर्तयति । ) राजा–भद्रे, वृक्षसेचनादेव परिश्रान्तामत्रभवतीं लक्षये । तथा ह्यस्याः स्रस्तांसावतिमात्रलोहिततलौ बाहू घटोत्क्षेपणा- दद्यापि स्तनवेपथुं जनयति श्वासः प्रमाणाधिकः । स्रस्तं कर्णशिरीपरोधि वदने धर्माम्भसां जालकं बन्धे स्त्रंसिनि चैकहस्तयमिताः पर्याकुला मूर्धनाः॥२६॥ तदहमेनामनृणां करोमि । ( इत्यङ्गुलीयं दातुमिच्छति ।) शकुन्तला-(आत्मगतम् ) यद्यात्मनः प्रभविष्यामि । ( प्रकाशम् ) का त्वं विसर्जितव्यस्य रोद्धव्यस्य वा ? राजा-( शकुन्तलां विलोक्य आत्मगतम्) किं नु खलु यथा वयमस्यामेवामियमप्यस्मान्प्रति स्यात् ? अथवा लब्धावकाशा में प्रार्थना । कुतः ?
वाचं न मिश्रयति यद्यपि मद्वचोमिः कर्णं ददात्यभिमुखं मयि भाषमाणे । कामं न तिष्ठति मदाननसंमुखीना भूयिष्ठमन्यविषया न तु दृष्टिरस्याः ॥ २७ ॥ शाकुन्तले प्रथमोऽङ्कः ।