पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 88 ) सदृशमिष्टसमागमनिर्वृतिं वनितयानितया रजनीवधूः ॥ ३८ ॥ अपतुषारतया विशदप्रभैः सुरतसङ्गपरिश्रमनोदिभिः । कुसुमचापमतेजयदंशुभि- र्हिमकरो मकरोर्जितकेतनम् ॥ ३९ ।। हुतहुताशनदीप्ति वनश्रियः प्रतिनिधिः कतकाभरणस्य यत् । युवतयः कुसुमं दधुराहितं तदलके दलकेसरपेशलम् ॥ ४० ॥ अलिभिरञ्जनबिन्दुमनोहरैः कुसुमपङ्क्तिनिपातिभिरङ्कितः । न खलु शोभयति स्म वनस्थलीं न तिलकस्तिलकः प्रमदामिव ॥ ४१ ।। अमदयन्मधुगन्धसनाथया किसलयाधरसंगतया मनः कुसुमसंभृतया नवमल्लिका स्मितरुचा तरुचारुविलासिनी ॥ ४२ ॥ अरुणरागनिषेधिभिरंशुकैः श्रवणलब्धपदैश्च यवाङ्करैः परभृताविरुतैश्च विलासिनः स्मरबलैरबलेकरसाः कृताः ॥ ४३ ॥