पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 65 )

अभिनयान्परिचेतुमिवोद्यता मलयमारुतकम्पितपल्लवा। अमदयत्सहकारलता मनः सकलिका कलिकामजितामपि ॥ ३३ ॥ प्रथममन्यभृताभिरुदीरितः प्रविरला इव मुग्धवधूकथाः । सुरभिगन्धिषु शुश्रुषिरे गिरः कुसुमितासु मिता वनराजिषु ॥ ३४ ॥ श्रुतिसुखभ्रमरस्वनगीतयः कुमुमकोमलदन्तरुचो बभुः। उपवनान्तलताः पवनाहतैः किसलयैः सलयैरिव पाणिभिः ॥ ३५ ॥ ललितविभ्रमबन्धविचक्षणं सुरभिगन्धपराजितकेसरम् । पतिधु निर्विविशुर्मधुमङ्गनाः स्मरसखं रसखण्डनवर्जितम् ॥ ३६ ॥ शुशुभिरे स्मितचारुतराननाः स्त्रिय इव श्लथशिञ्जितमेखलाः । विकचतामरसा गृहदीर्घिका मदकलोदकलोलविहंगमाः ॥ ३७ ॥ उपययौ तनुतां मधुखण्डिता हिमकरोदयपाण्डुमुखच्छविः