पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 64 ) राजा:-( ऊर्ध्वमवलोक्य ऊर्ध्वमवलोक्य ) कथमर्धं गतं दिवसस्य । अतः खलु उष्णार्तः शिशिरे निषीदति तरोर्मूलालवाले शिखी निर्भिद्योपरि कर्णिकारमुकुलान्याशेरते षट्पदाः । तप्तं वारि विहाय तरिनलिनी कारण्डवः सेवते क्रीडावेश्मनि चैव पञ्जरशुक: क्लान्तो जलं याचते ॥ २२ ॥ -विक्रमोर्वशीये द्वितीयोऽङ्कः। सुभगसलिलावगाहाः पाटलसंसर्गिसुरभिवनवाताः । प्रच्छायसुलभनिद्रा दिवमाः परिणामरमणीयाः ॥ ३ ॥ ईषदीषच्चुम्बितानि भ्रम: सुकमारकेसरशिखानि । अवतंसयन्ति दयमानाः प्रमदाः शिरीषकुमुमानि ॥ ४ ॥ -~-शाकुन्तले प्रथमोऽहः । उपहित शिशिरापगमश्रिया मुकुलजालमशोभत किंशुके। प्रणयिनीव नखक्षतमण्डनं प्रमदया मदयापितलज्जया ॥ ३१ ॥ व्रणगुरुप्रमदाधरदुःसहं जघननिर्विषयीकृतमेखलम् । न खलु तावदशेषमपोहितं रविरलं विरलं कृतवान्हिमम् ॥ ३२ ॥


रघुवंशे नवमः सर्गः ।