पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 67 )

उपचितावयवा शुचिभिः कण- रलिकदम्बकयोगमुपेयुषी। सदृशकान्तिरलक्ष्यत मञ्जरी तिलकजालकजालकमौक्तिकैः ॥ ४४:॥ ध्वजपटं मदनस्य धनुर्भूत- श्छविकरं मुखचूर्णमृतुश्रियः। कुसुमकेसररेणुमलिब्रजाः सपवनोपवनोत्थितमन्वयुः ॥ ४५ ॥ अनुभवन्नवदोलमृतूत्सवं पटुरपि प्रियकण्ठजिवृक्षया । अनयदासनरज्जुपरिग्रहे भुजलतां जलतामबलाजनः ॥ ४६ ॥ त्यजत मानमलं बत विग्रहै- र्न पुनरेति गतं चतुरं वयः । परभृताभिरितीव निवेदिते स्मरमते रमते स्म वधूजनः ॥ ४७ ॥ -रघुवंशे नवमः सर्गः।