पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(59) हंसर्जिता सुललिता गतिरङ्गनाना- मम्भोरुहैर्विकसितमुखचन्द्रकान्तिः । नीलोत्पलैर्मदकलानि विलोकितानि भ्रूविभ्रमाश्च रुचिरास्तनुभिन्तरंगैः ॥ १७ ॥ शरदि कुमुदसङ्गाद्वायवो वान्ति शीता विगतजलदवृन्दा दिग्विभागा मनोज्ञाः । विगतकलुषमम्भः श्यानपङ्का धरित्री विमलकिरणचन्द्रं व्योम ताराविचित्रम् ॥ २२ ॥ -ऋतुसंहारे शरद्वर्णनम् । हेमंतर्णनम् । Description of Winter. नवप्रवालोद्गमसस्यरम्यः प्रफुल्ललोध्रः परिपक्वशालिः विलीनपद्मः प्रपतत्तुषारो हेमन्तकालः समुपागतोऽयम् ॥ १ ॥ मनोहरैः कुङ्कुमरागरक्तै- स्तुषारकुन्देन्दुनिभैश्च हारैः । विलासिनीनां स्तनशालिनीना- मलंक्रियन्ते स्तनमण्डलानि ॥ २ ॥ प्रभूतशालिप्रसवैश्चितानि मृगाङ्गनायूथविभूषितानि। मनोहरक्रौञ्चनिनादितानि सीमान्तराण्युत्सुकयन्ति चेतः ॥ ८ ॥ .