पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/२९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सभद्रमुस्सं परिशुष्ककर्दमं सरः खनन्नायतपोत्रमण्डलै: प्रदीप्तभासा रविणाभितापितो वराहयूथो विशतीव भूतलम् ॥ १७ ॥ विवस्वता तीक्ष्णतरांशुमालिना सपङ्कतोयात्सरसोऽभितापितः । उत्प्लुत्य भेकस्तृषितस्य भोगिनः फणातपत्रस्य तले निदिति ॥ १८ ॥ समुद्धृताशेषमृणालजालकं विपन्नमीनं द्रुतभीतसारसम् । परस्परोत्पीडनसंहतैर्गजैः कृतं सरः सान्द्रविमर्दकर्दमम् ॥ १९ ॥ सफेनलालावृतवक्त्रसंपुटं विनिःसृतालोहितजिह्वमुन्मुखम् । तृषाकुलं निःसृतमद्रिगह्वरा- दवेक्ष्यमाणं महिषीकुलं जलम् ॥ २१॥ पटुतरदवदाहात्प्लुष्ट शप्पप्ररोहाः परुषपवनवेगोत्क्षिप्तसंशुष्कपर्णाः । दिनकरपरितापक्षीणतोयाः समन्ता- द्विदधति भयमुच्चैर्वीक्ष्यमाणा वनान्ताः ॥ २२ ॥ श्वसिति विहगवर्गः शीर्णपर्णद्रुमस्थः कापिकुलमुपयाति क्लान्तमद्रेर्निकुञ्जम् । भ्रमति गवययूथः सर्वतस्तोयमिच्छ- ञ्छरभकुलमजिह्यं प्रोद्धरत्यम्बु कूपात् ॥ २३ ॥ ..