पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/२९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 50 )

ग्रीष्मवर्णनम् । Description of the Summer. मृगाः प्रचण्डातपतापिता भृशं तृषा महत्या परिशुष्कतालवः । वनान्तरे तोयमिति प्रधाविता निरीक्ष्य भिन्नाञ्जनसंनिभं नमः ॥ ११ ॥ रवेर्मयूखैरभितापितो भृशं विदह्यमानः पथि तप्तपांसुभिः ॥ अवाङ्मुखो जिह्मगतिः श्वसन्मुहुः फणी मयूरस्य तले निषीदति ॥ १३ ॥ तृषा महत्या हतविक्रमोद्यमः श्वसन्मुहुर्दूरविदारिताननः । न हन्त्यदूरेऽपि गजान्मृगेश्वरो विलोलजिह्वश्चलिताग्रकेसरः ॥ १४ ॥ विशुष्ककण्ठाहृतसीकराम्भसो गभस्तिभिर्भानुमतोऽभितापिताः । प्रवृद्धतृष्णोपहता जलार्थिनो न दन्तिनः केसरिणोऽपि बिभ्यति ॥ १५ ॥ हुताग्निकल्पैः सवितुर्गभस्तिभिः कलापिनः क्लान्तशरीरचेतसः । न भोगिनं घ्नन्ति समीपवर्तिनं कलापचक्रेषु निवेशिताननम् ॥ १६ ॥