पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/२७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 30 ) का त्वं शुभे करय परिग्रहो वा किं वा मदम्यागमकारणं ते आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्ति ॥ ८ ॥ तमब्रवीत्सा गुरुणानवद्या या नतिपोरा स्वपदोन्मुखेन । तस्याः पुरः संप्रति वीतनाथां जानीहि राजन्नधिदेवतां माम् ॥ ९ ॥ वस्वौकसारामभिभूय साहं सौराज्यबद्धोत्सवया विभृत्या । समग्रशक्ती त्वयि सूर्यवंश्ये सति प्रपन्ना करुणामवस्थाम् ॥ १० ॥ विशीर्णतल्पाट्टशतो निवेशः पर्यस्तशालः प्रभुणा विना मे। विडम्बयत्यस्तनिमग्नसूर्यं दिनान्तमुग्रानिल भिन्नमेधम् ॥ ११ ॥ निशासु भास्वत्कलनूपुराणां यः संचरोऽभूदाभिसारिकाणाम् । नदन्मुखोल्काविचितामिषाभिः स वाह्यते राजपथः शिवाभिः ॥ १२ ॥ आस्फालितं यत्प्रमदाकराग्रै- र्मृदङ्गधीरध्वनिमन्वगच्छत् ।। वन्यैरिदानी महिषैस्तदम्भः शृङ्गाहतं क्रोशति दीर्घिकाणाम् ॥ १३ ॥