पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/२७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(29) The Presiding Deity of tbę:City of Ayodhya appears in female form in the inner apartment of King Kusha and graphically describes how the capital city which was very beautiful and prosperous, was reduced to a wretched state owing to the transfer of Govern. ment seat from her to the newlyformed Capital of Kushâvati. अथार्धरात्रे स्तिमितप्रदीपे शय्यागृहे सुप्तजने प्रबुद्धः। कुश: प्रवासस्थकलत्रवेषा- मदृष्टपूर्वां वनितामपश्यत् ॥ ४ ॥ सा साधुसाधारणपार्थिबर्द्धेः स्थित्वा पुरस्तात्पुरुहूतभासः । जेतुः परेषां जयशब्दपूर्वं तस्याञ्जलिं बन्धुमतो बबन्ध ॥ ५ ॥ अथानपोढार्गलमप्यगारं छायामिवादर्शतलं प्रविष्टाम् । सविस्मयो दाशरथेस्तनूजः प्रोवाच पूर्वार्धविसृष्टतल्पः ॥ ६ ॥ लब्धान्तरा सावरणेऽपि गेहे.. योगप्रभावो न च लक्ष्यते ते । बिभर्षि चाकारमनिर्वृतानां मृणालिनी हैममिवोपरागम् ॥ ७ ॥ .