पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/२३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 229 ) इति देहविमुक्तये स्थितां रतिमाकाशभवा सरस्वती । शफरीं ह्रदशोषविक्लवां प्रथमा वृष्टिरिवान्वकम्पयत् ॥ ४-३९॥ तदिदं परिरक्ष शोभने भवितव्यप्रियसंगमं वपुः । रविपीतजला तपात्यये पुनरोधेन हि युज्यते नदी ॥ ४-४४ अथ मदनवधूरुपप्लवान्तं व्यसनकृशा परिपालयांबभूव । शशिन इव दिवातनख्य लेखा किरणपरिक्षयधूसरा प्रदोषम् ४-४६ मनीषिताः सन्ति गृहेषु देवतास्तपः क्व वत्से क्व च तावकं वपुः । पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः ॥५-४॥ किमित्यपस्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम् । वद प्रदोषे स्फुटचन्द्रतारका विभावरी यद्यरुणाय कल्पते ५-४४ मुनिव्रतैस्त्वामतिमात्रकर्शितां दिवाकराप्लुष्टाविभूषणास्पदाम् । शशाङ्कलेखामिव पश्यतो दिवा सचेतसः कस्य मनो न दूयते।४।। अत आहर्तुमिच्छामि पार्वतीमात्मजन्मने । उत्पत्तये हविर्भोक्तुर्यजमान इवारणिम् ॥ ६-२८ ॥ सा मङ्गलस्नानविशुद्धगात्री गृहतिपत्युद्गमनीयवस्त्रा। निवृत्तपर्जन्यजलाभिषेका प्रफुल्लकाशा वसुधेव रेजे ॥ ७-११ ॥ मूर्ते च गङ्गायमुने तदानीं समाचरे देवमसेविषाताम् । समुद्रगारूपविपर्ययेऽपि सहंसपाते इव लक्षमाणे ॥ ७-४२ विलोलनेत्रभ्रमरैर्गवाक्षाः सहस्रपत्राभरणा इवासन् ॥ ७-६३ ॥ गणाश्च गिर्यालयमभ्यगच्छन्प्रशस्तमारम्भमिवोत्तमार्थाः ॥ ७-७१ .