( 228 ) पर्याकुलात्वान्मरुतां वेगभङ्गोऽनुमीयते । अम्भसामोघसंरोधः प्रतीपगमनादिव ॥ २-२५ ॥ लब्धप्रतिष्ठाः प्रथमं यूयं किं बलवत्तरैः । अपवादैरिवोत्सर्गाः कृतव्यावृत्तयः परैः ॥ २-२७ ॥ भवल्लब्धवरोदीर्णस्तारकाख्यो महासुरः । उपप्लवाय लोकानां धूमकेतुरिवोत्थितः ॥ २-३२ ॥ तदिछान्ते विभो स्रष्टुं सेनान्यं तस्य शान्तये ॥ कर्मबन्धच्छिदं धर्मं भवस्येव मुमुक्षवः ॥ २-५१ ॥ उमारूपेण ते यूयं संयमस्तिमितं मनः । शंभोर्यतध्वमाक्रष्टुमयस्कान्तेन लोहवत् ॥ २-५९ ॥ तद्गच्छ सिध्धै कुरु देवकार्यमर्थोऽयमर्थान्तरभाव्य एव । अपेक्षते प्रत्ययमुत्तमं त्वां बीजाङ्कुरः प्रागुदयादिवाम्भः ।३-१८॥ आवर्जिता किंचिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम् पर्याप्तपुष्पस्तबकावनम्रा संचारिणी पल्लविनी लतेव ॥ ३-५४ ॥ क्व नु मां त्वदधीनजीवितां विनिकीर्य क्षणभिन्नसौहृदः । नलिनी क्षतसेतुबन्धनो जलसंघात इवासि विद्रुतः ॥ ४-६ ॥ तमवेक्ष्य रुरोद सा भृशं स्तनसंबाधमुरो जघान च । स्वजनस्य हि दुखमग्रतो विवृतद्वारमिवोपजायते ॥ ४-२६ ॥ विधिना कृतमर्धवैशसं ननु मां कामवधे विमुञ्चता । अनपायिनि संश्रयद्रुमे गजभग्ने पतनाय वल्लरी ॥ ४-३१ ॥ •.
पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/२३२
दिखावट