पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 182 ) मनसापि न विप्रियं मया कृतपूर्वं तव किं जहासि माम् । ननु शब्दपतिः क्षितेरहं त्वयि मे भावनिबन्धना रतिः ॥ १२ ॥ कुसुमोत्खचितान्वलीभृतश्चलयन्भृङ्गरुचस्तबालकान् । करभोरु करोति मारुतस्त्वदुपावर्तनशङ्कि मे मनः ॥ ५३ ॥ तदपोहितुमर्हसि प्रिये प्रतिबोधेन विषादमाशु मे । ज्वलितेन गुहागतं तमस्तुहिनाद्रेरिव नक्तमोषधिः ॥ ५४ ॥ इदमुच्छ्वसितालकं मुखं तव विश्रान्तकथं दुनोति माम् । निशि सुप्तमिवैकपङ्कजं विरताभ्यन्तरषट्पदस्वनम् ॥ ५५ ॥ शशिनं पुनरेति शर्वरी दयिता द्वन्द्वचरं पतत्रिणम् । इति तौ विरहान्तरक्षमौ कथमत्यन्तगता न मां दहेः ॥ ५६ ॥ नवपल्लवसंस्तरेपि ते मृदु दूयेत यदङ्गमर्पितम् । तदिदं विषहिष्यते कथं वद वामोरु चिताधिरोहणम् ॥ १७ ॥ इयमप्रतिबोधशायिनी रशना त्वां प्रथमा रहःसखी । गतिविभ्रमसादनरिवा न शुचा नानुमृतेव लक्ष्यते ॥ ५८ ।। कलमन्यभृतासु भाषितं कलहंसीषु मदालसं गतम् । पृषतीषु विलोलमीक्षितं पवनाधूतलतासु विभ्रमाः ॥ ५९ ॥ त्रिदिवोत्सुकयाप्यवेक्ष्य मां निहिताः सत्यममी गुणास्त्वया । विरहे तव मे गुरुव्यथं हृदयं न त्ववलंम्बितुं क्षमाः ॥ ६ ॥ मिथुनं परिकल्पितं त्वया सहकारः फलिनीच नन्विमौ । अविधाय विवाहसत्क्रियामनयोर्गम्यत इत्यसांप्रतम् ॥ ६१ ॥ कुसुमं कृतदोहदस्त्वया यदशोकोऽयमुदीरयिष्यति । अलकाभरणं कथं नु तत्तव नेष्यामि निवापमाल्यताम् ॥ ६२ ।।