पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अजविलापः Lamentation of King Aja at the sudden and dramatic death of his Queen Indumati by the dropping of a floral garland from Heaven. विललाप स बाष्पगद्गदं सहजामप्यपहाय धीरताम् । अभितप्तमयोऽपि मार्दवं भजते कैव कथा शरीरिषु ॥ ४३ ॥ कुसुमान्यपि गात्रसंगमात्प्रभवन्त्यायुरपोहितुं यदि । न भविष्यति हन्त साधनं किमिवान्यत्प्रहरिष्यतो विधेः ॥४४॥ अथवा मृदु वस्तु हिंसितुं मृदुनैवारभते प्रजान्तकः । हिमसेकविपत्तिरत्र मे नलिनी पूर्वनिदर्शनं मता ॥ ४५ ॥ स्त्रगियं यदि जीवितापहा हृदये किं निहिता न हन्ति माम् । विषमप्यमृतं क्वचिद्भवेदमृतं वा विषमीश्वरेच्छया ॥ ४६ ॥ अथवा मम भाग्यविप्लवादशनिः कल्पित एष वेधसा। यदनेन तरुर्न पातितः क्षपिता तद्विटपाश्रिता लता ॥ ४७ ॥ कृतवत्यसि नावधीरणामपराद्धेऽपि यदा चिरं माय । कथमकपदे निरागसं जनमाभाष्यमिमं न मन्यसे ॥ ४८ ।। ध्रुवमस्मि शठः शुचिस्मिते विदितः कैतववत्सलस्तव । परलोकमसंनिवृत्तये यदनापृच्छ्य गतासि मामितः ॥ ४९ ॥ दयितां यदि तावदन्वगाद्विनिवृत्तं किमिदं तया विना । सहता हतजीवितं मम प्रबलामात्मकृतेन वेदनाम् ॥ ५० सुरत्नश्रमसंभृतो मुंखे ध्रियते स्वेदलवोद्गमोऽपि ते । अथ चास्तमिता त्वमात्मना घिगिमां देहभृतामसारताम् ॥११॥

..