पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 183 ) स्मरतेव सशब्दनूपुरं चरणानुग्रहमन्यदुर्लभम् । अमुना कुसुमाश्रुवर्षिणा त्वमशोकेन सुगात्रि शोच्यसे ॥ ६३ ॥ तव निःश्वसितानुकारिभिर्बकुलैरर्धचितां समं मया । असमाप्य विलासमेखलां किमिदं किंनरकण्ठि सुष्यते ॥ ६४ ॥ समदुःखसुख: सखीजनः प्रतिपच्चन्द्रनिभोऽयमात्मजः । अहमेकरसस्तथापि ते व्यवसायः प्रतिपत्तिनिष्ठुरः ॥ ६५ ॥ धृतिरस्तमिता रतिश्च्युता विरतं गेयमृतुर्निरुत्सवः । गतमाभरणप्रयोजनं परिशून्यं शयनीयमद्य मे ॥ ६६ ॥ गृहिणी,सचिवः सखी मिथः प्रियशिष्या ललित कलाविधौ । करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम्॥६७ ॥ मदिराक्षि मदाननार्पितं मधु पीत्वा रसवत्कथं नु मे । अनुपास्यसि बाष्पदूषितं परलोकोपनतं जलाञ्जलिम् ॥ ६८ ।। विभवेऽपि सति त्वया विना सुखमेतावदजस्य गण्यताम् । अहृतस्य विलोभनान्तरैर्मम सर्वे विषयास्त्वदाश्रयाः ॥ ६९ ।। विलपन्निति कोसलाधिपः करुणार्थग्रथितं प्रियां प्रति । अकरोत्पृथिवीरुहानपि स्रुतशाखारसबाष्पदूषितान् ॥ ७० ॥ अथ तस्य कथंचिदङ्कतः स्वजनस्तामपनीय सुन्दरीम् । विससर्ज तदन्त्यमण्डनामनलायागुरुचन्दनैधसे ॥ ७१ ॥ प्रमदामनु संस्थितः शुचा नृपतिः सन्निति वाच्यदर्शनात् । 'न चकार शरीरमग्निसात्सह देव्या न तु जीविताशया ॥ ७२ ।। अथ तेन दशाहतः परे गुणशेषामुपदिश्य भामिनीम् । विदुषा विधयो महर्द्धयः पुर एवोपवने समापिताः ॥ ७३ ।।