पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । ८९ प्रभा. घटव्यक्त्यभावं पूर्वक्षणवृत्तित्वविशिष्टघटाभावं घटपटोभयाभावं च विषयीकृल बोधतात्पर्येण प्रयुक्त घटाभाववद्भूतलमिति वाक्यस्य प्रमाणत्वं च घटते । एतत्सर्वं हृदि निधाय गन्धाभाववत्त्वादि- त्यनुक्त्वा गन्धशून्यत्वादित्युक्तम् । अत्र समवायसंवन्धावच्छिन्न प्रतियोगिताकत्वं हेतौ विशेषणीयम्। तेन गन्धवति संयोगसंबन्धेन गन्धाभावसत्त्वेऽपि न व्यभिचारः । नच तथाप्युत्पत्तिकालघटे ता- दृशगन्धाभावसत्त्वात् व्यभिचारस्तदवस्थ एवेति वाच्यम् । समवायेन गन्धसंवन्धित्व शून्यत्वस्यैव विव- क्षितत्वात् । नचैवं सुरभ्य सुरस्यवयवारब्धे निर्गन्धघटे व्यभिचारो दुर्वार इति वान्यम् । समवायेन गन्धसंबन्धित्व-समवाय घटितसामानाधिकरण्यसंवन्धेन गन्धसंबन्धित्व-एतदन्यतरत्वावच्छिन्नस्वरूपसंव- न्धावच्छिन्नप्रतियोगिताकाभावस्यैवाभावीयदेशिकविशेषणतासंबन्धेन हेतुत्व एतादृशग्रन्थतात्पर्यात् । नि. र्गन्धवटे समवाय घटितसामानाधिकरण्येनावयवगन्धसंबन्धित्वसत्त्वेन निरुक्तहेत्वभावाद्यभिचाराप्रसक्तः । केचित्तु अभावश्च प्रतियोगिव्यधिकरणः समवायसंवन्धावच्छिन्न प्रतियोगिताकश्च बोध्यः । तेनोत्पत्ति- कालीने संयोगसंबन्धावच्छिन्नगन्धाभाववति घटे न व्यभिचार इत्याहुः तदसत् प्रतियोगिव्यधिक- रणत्वमत्र समवायेन प्रतियोगितावच्छेदकसंवन्धेन वा । नायः समवाये गन्धानधिकरणजलादिवृत्ति- त्वविशिष्टस्य संयोगेन गन्धाभावस्य घटेऽसत्वाद्यभिचाराप्रसक्तेः । न द्वितीयः संयोगेन गन्धाभाव- स्य प्रतियोगितावच्छेदकसंयोगसंबन्धेन गन्धाधिकरणाप्रसिद्धया प्रतियोगिव्यधिकरणत्वाभावेनैव व्यभि. चारवारणे अभावे समवायसंबन्धावच्छिन्न प्रतियोगिताका वाविशेषणवैवात् । स्वप्नातयोगितावच्छेदक- संवन्धन प्रतियोगितावच्छेदकावच्छित्रसमानाधिकरणं यद्यत्स्वं तत्तयक्तित्वावच्छिन्न प्रतियोगिताकभेदकूटव - त्वरूपं प्रतियोगिव्यधिकरणसंबन्धावच्छिन्नसाधारणं प्रतियोगिवैयधिकरण्यं निवेश्य समवायसंवन्धावच्छि- नप्रतियोगिताकत्वविशेषणसार्थक्यसमर्थनस्य प्रक्षाटनाद्धीति न्यायग्रस्तत्वात्तावतापि निर्गन्धघटे व्यभि- चारवारणाच । नच प्रतियोगिव्यधिकरणनिरूक्तगन्धाभाव-समवायटित सामानाधिकरण्यन गन्धाभाव - तदुभयत्वावच्छिन्नस्य हेतु चानोक्तस्थले व्याभिचार इति वाच्यम् एवमपि वृत्त्यनियामकसंबन्धस्याभा- मञ्जूषा. स्वप्रतियोगितावच्छेदकसम्बन्धेन स्वप्रतियोग्यधिकरणवृत्ति यत्तदन्यत्वं प्रतियोगिव्यधिकरणत्वमिति चे. त्तहि समवायेन गन्धाभावस्य प्रतियोग्यधिकरणे घटे उत्पत्तिकालावच्छेदेन वर्तमानत्वादप्रसिद्धिरिति स्वप्रतियोगितावच्छेदकसंवन्धेन स्वप्रतियोगिसमानाधिकरणं यत्तद्भिन्नत्वमेवेह प्रतियोगि- दिनकरीयम्. निराकुरुते । तद्धीत्यादिना ॥ गन्धेति ॥ गन्धाभावस्य हेतु त्वोक्तो पटगतगन्धप्रतियोगिकाभावमादाय घटे व्यभिचारोऽतः शून्यत्वमुक्तम् । हेतुश्च प्रतियोगियधिकरणः रामवायसम्बन्धावच्छिन्नप्रतियोगि- ताकोऽपि बोध्यः । तेन नोत्पत्तिकालीने संयोगसंबन्धावच्छिन्नगन्धाभाववति च घटे व्यभिचारः रामरुद्रीयम्. प्रतीतेरिव एतस्या अपि प्रतीतेभ्रंमत्वकल्पनसम्भवात्पूर्वोक्तावतारणासङ्गतिः, तथापि बह्नयादितेजस्यौपाधि- करक्तादिरूपभ्रमस्य सर्वसिद्धतया रूपवत्ताप्रतीतो भ्रमत्वकल्पनसंभवः, क्रियावत्ताप्रतीतौ तु न तथा सम्भवः, क्वापि कियावत्ताप्रतीतौ तथात्वादर्शनादिति भावः यद्यपि वेगवतः पुंसः स्थिरे वृक्षादौ भ्रमरूपा क्रियावत्ताप्रतीतिरनुभूयते, तथापि तत्र भ्रान्तपुरुषनिष्ठदोषस्यैव क्रियावत्ताभ्रमजनक- वेन क्लप्ततया भ्रमविशेषे समीपवृत्त्युदासीनपदार्थनिष्ठक्रियारूपदोषस्य क्रियानमजनकत्वेन कुत्राप्य कल्प- नात नान प्रतीतेभ्रमत्वकल्पनसंभव इति भावः । ननु गन्धाभावादित्यनुक्त्वा गन्धशून्यत्वान्न पृथिवीति किमर्थमुक्तमित्याशङ्कय गन्धाभावादित्युक्ते गन्धप्रतियोगिकाभावहेतुता लभ्यते तथा च तत्तद्गन्धाभावस्यापि तथात्वेन तस्य च पृथिवीत्वाभावव्याभिचारित्वात् गन्धसामान्याभावस्य हेतुतालाभाय गन्धशून्यत्वादियुक्तमि- 12 चेदत्र ब्रूमः - - 1 7