पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९० कारिकावली पृथिवी, नीलरूपवत्त्वाच न जलादिकम । तत्प्रत्यक्षे चालोकनिरपेक्षं चक्षुः कारणमिति प्रभा. - वप्रतियोगितानवच्छेदकत्वमते सामानाधिकरण्येनाभाववत्त्वघटितनिरुक्तहेतोरप्रसिद्धेः । न पृथिवीति । पृथिवीत्वशुन्यमित्य: । एकहेतु व जलत्वादिमनस्त्वान्तान्यत्तमशुन्यत्वसाधमसंभवे स्नेहशून्यत्वादितत्त- हेतुना अलवाभावादेः प्रातिस्विकरूपेण साधनमनाचतामित्यभिप्रायेणाह । नीलरूपवत्त्वादिति ॥ ननु तमो न रूपिद्रव्यम् आलोकासहकृतचक्षुग्राह्यत्वादालोकाभाववत इत्य गुमानेन रूपिद्रव्यभिन्नत्वसिद्धौ नीलरू- पवत्वेन तमास कथं जलत्वादिमनस्स्वान्तान्यतमशून्यत्वसिद्धिरित्याशङ्कां रूपिद्रव्यभिन्नत्वसाधकहेतोयंभि- चारप्रदर्शनेन परिहरति । तत्प्रत्यक्ष इति॥ तमःप्रत्यक्ष इत्यर्थः । आलोक इति ॥ आलोकासहकृतचक्षुरेव कारणमित्यर्थः । तथाच द्रव्यत्तिलौकिकविषयतासंबन्धेन चाक्षुषमाने आलोकस्य न कारणत्वं आलोकादौ मजूपा. व्यधिकरणत्वम् । मीमांसकमते अधिकरणस्वरूपानतिरिक्तस्याभावस्याधिकरणभेदेन भिन्नतया तमोनिष्टस्य गन्याभावस्य निरुक्तप्रतियोगिव्यधिकरण त्वोपपत्तिः । अथवा स्वीयभावनिष्टप्रतियोगितावच्छेदकसंबन्धेन भावरूपप्रतिश्रोग्यनधिकरणवृत्तित्वं प्रतियोगिव्यधिकरणत्वं, संयोगपदं च समवायातिरिक्त त्वेन रूपेण का- लिविशेषणताविषयितादिसंबन्धपरम् । अतस्तत्संबन्धावच्छिन्न प्रतियोगिताकाभावमादाय व्यभिचार चार- णाय समचायावच्छिन्न प्रतियोगिताकत्वविशेषणसाधक्यं इति बोध्यम् । परन्तु समवायेन प्रतियोग्यन- धिकरणवृत्तित्व विशिष्टगन्धाभावगन्धाधिकरणत्वाभावगन्धवद्भेदादेरपि लघोहे त्वन्तरस्य संभवः । अथैवमपि नानाजातीयगन्धव दवयवारब्धस्यावयविनों निर्गन्धताया अप्रे वक्ष्यमाणतया तत्र व्यभिचारः | नच समवायसामानाधिकरण्यान्यतरसंवन्धेन गन्धशुन्यत्वविवक्षया न व्यभिचार इति वाच्यमें । निर्गन्ध- कपालारब्धघटे निर्गन्धकपालावयवारब्धकपालारब्धघटादौ च व्यभिचारस्य तावताप्यपरिहारादिति चे- न । गन्धवत्तिद्रव्यत्वव्यायजातिशून्यत्वस्थ गन्धवदत्तिजातिमत्त्वस्य वा विवक्षितत्वात् । ननु तमसो द्रव्यत्वे व्यनिष्टलौकिकविषयतासंबन्धन चाक्षुषत्वावच्छिन्नं प्रत्यालोकसंयोगस्यालोकावच्छिन्नचक्षुस्सयोगस्य वा कारणतायां व्यभिचारः । न चालोकचाक्षुषे व्यभिचारवारणाय स्थाव्य चाहतोत्तर क्षणोत्पत्तिकत्वसंबन्धने दिनकरीयम्. नीदरूपेति ॥ अनुगतेनकेनैव नीलरूपेण हेतुना जलाद्यष्टक भेदसिद्धेः स्नेहाभावभास्वररूपादीनामन - रामभद्रीयम्. त्यभिप्रायेणाह । गन्धाभावस्येति ॥ संयोगसम्बन्धावच्छिन्नगन्धाभाववति चेति ॥ नच संयोगेन गन्धाभावे प्रतियोगिव्यधिकरणत्वस्यैव दुर्घटतया तादृशाभावमादाय व्यभिचारप्रदर्शनमसङ्गतं संयोगेन प्रतियोग्याधिकरणाप्रसिद्धरिति वाच्यम् । यादशसम्बन्धसामान्ये यदभावप्रतियोगिप्रतियोगिकत्वयदभावाधि. करणीभूत यत्किंचिद्धबक्त्यनुयोगिकत्वोभयाभावः तदधिकरणे तदभावस्य तादृशसम्बन्धेन प्रतियोगियधिकर गत्वमित्युक्त तादृशामावस्यापि प्रतियोगिव्याधिकरणत्वसम्भवादिति भावः । वस्तुतस्तु सुरभ्यसुरभ्यवयवा- रब्धघटे व्याभिचारो दुर्वारः. तल परस्परविरोधेन कस्यापि गन्धस्यानुत्पत्त्या प्रतियोगिव्यधिकरणसमवायस- म्बन्धावच्छिन्नगन्धसामान्याभाव सत्त्वादिति प्रतियोगिव्यधिकरणत्वं स्वसमवायिसमवेतत्वसम्बन्धेन गन्धान- धिकरणे निरवच्छिन्नदशिकविशेषणतया वृत्तित्वं तद्विशिष्टगन्धाभावस्य हेतुत्वे तात्पर्यमुपगन्तव्यम् । उक्तघटे च उक्त सम्बन्धेन कपालनिष्टगन्धसत्त्वेन तत्र गन्धाभावस्थ प्रतियोगिव्यधिकरणत्वासम्भवान्न व्यभिचारः । नच यत्र मुरभ्य मुराभिकापालिकारब्धं कपालद्वयं तत्र समवेतस्य घटस्य स्वाश्रयसमवेतत्वसम्बन्धेनापि गन्धा- धिकरणत्वविरहावयभिचारतादवस्थ्यमिति वाच्यम् । कपालद्वयसंयोगादुत्पत्स्यमानस्य घटस्य कपालावयवा- दिष्वपि समवायेनोत्पादस्वीकारात् । अन्यथा घटसत्त्वदशायामेव कापालिकादौ समवायेन घटाभावस्य