पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. व्यभिचारात् किन्वालोकादिभिन्नद्रव्यवृत्तिलौकिकविषयतासंबन्धन चाक्षुष एव आलोकादिवृत्तिलौकिकविषय- मञ्जूषा. आलोकसंयोगवशिष्ट्यस्य तदवच्छिन्न चक्षुस्संयोगवैशिष्टयस्य वा कार्यतावच्छेदककोटी अवश्यं निवेशनीयतया तमश्चाक्षषे न व्यभिचार इति वाच्यम् । आलोकसंयोगस्यालोकवृत्तिसंयोगत्वेन कारणतया आलोकचाक्षुपे ऽप्यालोकवृत्तिगगनादिसंयोगस्याप्यन्ततस्संभवेन तत्र व्यभिचारप्रसक्त्यभावात् । अत एव संयोगसं- वन्धेनालोकस्य कारणता परित्यज्यालोकसंयोगस्यैव कारणता स्वीक्रियते । अन्यथा संथाग. संबन्धेनालोकस्यालोकावच्छिन्नचक्षुस्सयोगस्य वाऽभावेन व्यभिचारापत्तेः । अत एवं गृह्णाति चक्षु. स्संब धादालोकोद्भूतरूपयोरिति मूले आलोकपदं आलोकसंयोगपरतया व्याख्यास्यति ग्रन्थकृत् । अथा. लोकवृत्तित्वसंयोगत्वयोर्विशेषणविशेष्यभावे विनिगमनाविरहेण कारणताद्वयापत्त्या संयोगसंवन्धनालोकत्व तदवच्छिन्नचक्षुस्संयोगस्य वा कारणव युक्ता । तथाचालोकचाक्षषे व्यभिचारवारणाय कारणवैशि- ट्यस्य कार्यतावच्छेदककोटौ निवेशनीयतया न तमश्चाक्षुषे व्यभिचारः । न चालोकचाक्षुषे व्य- भिचारवारणायालोकभिन्नद्रव्यचाक्षुषत्वमेव कार्यतावच्छेदकं स्वीक्रियते अव्यवहितोत्तरत्वानिवेशे गौरवात तथाच तमश्चाक्षुषे व्यभिचारो दुवार इति वाच्यम् । एतदोषवारणार्थव गौरवेऽपि अव्यवाहितोत्तरत्वघ, टितधर्मस्य कार्यतावच्छेदकत्वस्वीकारसंभवादिति चेन्न । यथोक्तकारणवैशिष्टयस्य कार्यतावच्छेदककोट, निवेशेऽपि तादृशकारणवैशिष्ट्यचाक्षपत्वयाविशेषणविशेष्यभावे विनिगमनाविरहेण कारणताद्वयस्याविशि. टतया अव्यवहितोत्तरत्वनिवेशप्रयुक्तगौरवाधिक्येन तदपेक्षया आलोकवृत्तिसंयोगत्वेन कारणताया एव युक्तत्वात् । किंचालोकस्य तदवच्छिन्नचक्षुस्संयोगस्य वा स्वविशिष्टचाक्षुषं प्रति कारणतास्वीकारे आलोकस्य तवच्छिन्नचक्षुस्संयोगस्य वाऽभावदशायां महद्भूतरूपादिघटितसामान्यसामग्रीबलात् घटादौ द्रव्यचाक्षुष. त्वावच्छिन्नापत्तिः । कारणतावच्छेदकावच्छिन्नसत्त्वे कार्यतावच्छेदकावच्छिन्नोत्पत्तेरावश्यकत्वात् । नच विशेषसामप्रसिमबहिताया एव फलोपधायकत्वेनोद्भूतरूपादिघटितसामान्य सामग्या दिनकरीयम्. नुगतानां न हेतुतयोपन्यासः, जलादिकमित्यादिना तेजःप्रभृतिद्रव्यसंग्रहः । तथा व नवसु द्रव्येष्वन्त- रामरुद्रीयम्. प्रत्यक्षापत्तेः । नच कपालस्य घटप्रतिबन्धकत्वात्कथं कापालिकादौ तदुत्पाद इति वाच्यम् । द्रव्यविभाजकोपा- धिव्याप्या या घटत्वादिजातयः तत्तज्जात्यवच्छिन्नं प्रति तत्तज्जात्यवच्छिन्नस्यैव प्रतिवन्धकत्वोपगमेन घट प्रति कपालस्याप्रतिबन्धकत्वात् । तद्व्यं प्रति तद्दव्यानारम्भकद्रव्यत्वेन वा प्रतिबन्धकतायाः स्वीकरणी. यत्वादिति । पार्थिवपरमाणौ गन्धनाशदशायां गन्धाभावसत्दात्तत्र व्यभिचारवारणाय विशेषणता निरव- च्छिन्नत्वप्रवेशः । इत्थं च संयोगेन गन्धाभावस्यापि प्रतियोगिव्याधिकरणत्वात् तद्वारणाय रामवायावच्छिन्न प्रतियोगिताकत्वनिवेशसार्थक्यम् । एतन प्रतियोगिव्यधिकरणत्वं यदि प्रतियोग्यधिकरणावृत्तित्वं तदा ताट शगन्धाभावाप्रसिद्धिः अधिकरणभेदेनाभावाभेदात् । यदि प्रतियोग्यनधिकरणवृत्तित्वं तदा गन्धाभावप्रतियो. गित्वेन गन्धोपादाने शिरोवेष्टनेन नासिकास्पर्शतुल्यता यदि गन्धानाधिकरणवृत्तित्वं तदापि गन्धान- धिकरणजलादिवृत्तिगन्धाभावस्य पृथिव्यामपि सत्त्वाव्यभिचारतादवस्थ्यम् , यदि च गन्धानधिकरण वृत्तित्वविशिष्टगन्धाभावस्य हेतुत्वान्न व्यभिचार इति विभाव्यते तदापि तद्धटक गन्धानधिकरणत्वमावस्या हेतुतासम्भवेन शेषवैयर्थ्यमिति दूषणानि प्रत्युक्तानि । स्वाश्रयसमवेतृत्वसम्बन्धेन गन्धानधिकरणत्वस्थ पार्थिवपरमाणौ व्यभिचारित्वेन शेषसार्धक्यादिति विभावनीयम् । न हेतुतयति ॥ एतेन प्राचीन प्रन्थेषु जलादिभेदसाधने मनाहेतूपन्यासो व्यर्थप्रयास इति सूचितम् । परिशेपेणेति । पृथिव्यादि. सामान्यसामन्याः